________________
८३
विकल्पप्रतिभासावस्तुत्वनिराकरणम् । ननु बाह्यतयाऽध्यवसीयते शब्दोल्लेखः । वदयं बाह्यव्यवस्थानिबन्धनत्वेन बाह्यकृतः। अन्यथा नीलादिप्रतिभासोऽपि तथा न प्रामोति । बाह्यतयाऽध्यस्तस्य ह्याकारस्य बाह्यव्यवस्थानिबन्धनस्य बाह्यकृतत्वं व्यापकं बाह्यार्थवादिनः । न चायमप्यर्थेनैव जन्यते । जनकत्वं हि भेदकत्वेन व्याप्तम् , कारणभेदस्याभेदकत्वे विश्वस्याभेदकत्व
प्रसङ्गात् । अर्थान्तरकार्यस्य चाधानमभेदकत्वम् । अतो विरुद्धव्याप्तोपलब्ध्या शब्दोल्लेख- 5 1298 जनकत्वमर्थस्य प्रतिषिध्यते । तदस्याऽर्थादन्यो बाह्यः शब्दो जनकः । न चेद्रियाद्
विज्ञानोत्पादकालेऽर्थात्मानोऽर्थसन्निधौ वा शब्दाः सन्ति । तदिन्द्रियार्थोत्पन्न ज्ञानमविकल्पकमेव । सविकल्पकं तु मानसं विज्ञानमर्थन्द्रियानपेक्षमिति ।
___ अत्राह-अन्तरिति उत्पादादिति योगः । वाशब्द उपादानभेदापेक्ष: । यद्युपादोनभेदात् स्मृत्यादिव्यवधानानपेक्षस्य विकल्पस्याविष्टामिलापस्योत्पादो न घटते 10 तदाऽन्तरुपौदानसमीपे बहिर्लाह्यार्थसन्निधौ यानि भाषाद्रव्याणि शब्दपरिणामयोग्याः पुद्गलास्तेभ्यो वा घटताम् ।
अयमर्थः- अर्थादर्थग्रहणपरिणामः, भाषाद्रव्येभ्यस्तु शब्दोल्लेखः । यदि चायं 130A बाह्यतयाऽध्यवसीयते तदा बाह्यकृतोऽस्तु नाम । बाह्यव्यवस्थानिवन्धनं तु न भवत्येव,
ग्रहणपरिणामो हि बाह्यव्यवस्था निबन्धनम् , अयं तु शब्दोल्लेखः । अन्यो हि ज्ञानस्य 15 शब्दग्रहणपरिणामोऽन्यश्च शब्दोल्लेखः । न च जैन्यत्वादर्थग्रहणपरिणामवदयेमपि ग्रहणपरिणाम ऐवं किं न भवतीति वाच्यम् । न हि यावतो ज्ञाने "व्यापारस्तोवता प्रहणपरिणामो ज्ञानस्य, इन्द्रियैर्व्यभिचागत् । ततो वाह्यतयाध्यवसीयमानौ ज्ञानस्य शब्दार्थोल्लेखौ बाह्यकनावित्यत्र नास्ति विप्रतिपत्तिः ।
अपि च, शब्दोल्लेखस्य बाह्यतयाऽध्यवसायः किमर्थात्मना यथा 'नीलाकारं मे 20
१ शब्दोलखो बाह्यकृतः, बाह्यव्यवस्थानिबन्धनत्वात्, यथा नीलाकारादि ज्ञानम् ॥ २ बाह्यत्वेन ॥ ३ शब्दोलखः ॥ ४ कारणान्तरजन्यकार्याजनकत्वेन । कोऽर्थः। सर्वमपि कारणम् आत्मीय नियतं कार्य जनयति. न तु भिन्नकारणजन्यं कार्यमिति ।। ५ कारणान्तरजन्यकार्यजनकत्वे इष्यमाणे ॥ ६ अर्थान्तरं शब्दः, तस्य कार्य शब्दोलखः, तस्य आधानं करणं यत्र बाह्येन वस्तुना तदभेदकत्वम् ॥ ७ विवादाध्यासितो नीलादिरों नीलादिशब्दजन्यशब्दोल्लेखजनको न भवति, भेदकत्वात् , कारणान्तरजन्यकार्याजनकत्वात् । अत्र प्रतिषेध्यं 25 शब्दोल्लेखजनकत्वम्, तस्य विरुद्धमजनकत्वम् , तेन शब्दोलेखाजनकत्वेन विशेषेण सामान्य कारणान्तरजन्यकार्याजनकत्वं व्याप्तम् , तस्योपलब्धिः, तया ।। ८ शब्दोलेखस्य ॥ ९ न तदुत्पत्तिरपि ।। १० अन्तर्बहिर्भाषाद्रव्येभ्यो वा ॥ ११ नार्थः शब्दजन्यशब्दोलेखजनकः, अभेदकत्वप्रसङ्गात् । प्रतिषेध्यस्य जनकत्वस्य विरुद्धमजनकत्वम्, तेन व्याप्तस्याभेदकत्वस्योपलन्धिप्रसङ्गः ।। १२ ज्ञानलक्षणस्योपादानस्य समीपे ॥ १३ कार्यत्वात् ॥ १४ शब्दोलेखः ॥ १५ जन्यत्वाविशेषात् ।। १६ जनकत्वब्यापारः ॥ १७ सम्बन्धित्वेन ॥ 30 १८ अर्थरूपेण ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org