________________
स्थोपाटीकासहिते द्रव्यालकारे द्वितीये प्रकाशे " अर्थोपयोगेऽपि पुन: स्मात्तै शब्दानुयोजनम् । अक्षधीयद्यपेक्षेत सोऽर्थों व्यवहितो भवेत् ।" [प्रमाणविनिश्चयः पृ० २५३ A १० १]
इति ।
अत्रोच्यते___न चार्थस्य स्मृत्यादिव्यवधा, अविष्टाभिलापस्यास्य यथा- 5 सङ्केतक्षयोपशमुपादानभेदादुत्पादात् , अन्तर्वहि षाद्रव्येभ्यो वा ।
चार्थस्य ग्राह्यस्य स्मृत्यादिभिर्विकल्पोत्पादे व्यवधा ? आदिशब्दाच्छन्दयोजना1278 परिग्रहः । यस्मादाविष्टामिलापस्य शब्दोल्लेखसम्पृक्तस्य यथासक्केतक्षयोपशममिति सङ्केतेन
क्षयोपशमस्तस्यानतिक्रमेण यथासङ्केतक्षयोपशमम् । उपादानं परिणामिकारणम् , उपादानमेव भिद्यते विशिष्यतेऽन्यस्मादिन्युपादानभेदः, तस्माद्विकल्पस्योत्पादात् । स एष 10 कोऽपि क्षयोपशमस्यातिप्रकर्षों य एकदा सङ्केतप्रमावित: स्मरणादिव्यवधानानपेक्ष एव निश्चयज्ञानमुत्पादयति तथैवानुभवात् । तदुक्तम्
"न हि सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचकप्रयोगः तथाऽननुभवात् , अन्तर्जल्पाकारबोधोपलब्धेः" [ अनेकान्तजयपताकायां तृतीयेऽधिकारे पृ० १८० ] इति ।
इदमुक्तं भवति-ज्ञानधर्मः कश्चिद्वाह्याधीनो यथाऽर्थग्रहणपरिणामः, बाह्यादृते 15 तदनुपपत्तेः । कश्चित् तद्विपरीतो यथा बोधरूपत्वम् , बाह्यानपेक्षादपि परिणामिमात्रात् 1294 तदुत्थानात् । तद्वदयं शब्दोल्लेखोऽपि विशिष्टक्षयोपशमाहितज्ञानधर्मः परिणामि
मात्रभावी बाह्यनिरपेक्षः । अत एव मेर्वविकल्पानुयायी । शब्दग्रहणपरिणामस्तु यो ज्ञानधर्मः स बाह्यं ग्राह्यमनुरुणद्धि । अत एव श्रोत्रविज्ञान एवास्य सम्मवः । अन्यो हि शब्दोल्लेखः, अन्यश्च शब्दग्रहणपरिणाम इति ।
20
१ विकल्पञ्चानम् ॥२.न्यायमझरी-न्यायवार्तिकतात्पर्यटीकासम्मतिटीका-सिद्धिविनिश्चय टीका दिग्रन्थेषूद्धृतोऽयं श्लोकः ॥ ३. द्रव्येभ्योऽपि वा इति मूलादर्श पाठः ॥ ४ न चार्थस्य स्मृत्यादिव्यवधा॥५ आविष्टाभिलापस्यास्य यथासक्तक्षयोपशमम् उपादानभेदात् उत्पादात् ।। ६ ज्ञानरूपम् ।। ७ अनेकान्तजयपताकासुत्रम् ॥ ८ अननुभवोऽपि कुतः१ अन्तर्जल्पाकारः शन्दोलेखो यत्र, स चासो बोधश्च, अन्तःशब्दोलखवान् बोधः ॥ ९ बाह्यमर्थ विना ॥ १० ज्ञानरूपात् ।। ११ 25 बोधरूपत्व ॥ १२ जनित ॥ १३ ज्ञानरूपपरिणामिमात्रभावी ।। १४ 'रिणाममात्रभावी इत्यतः 129 A पत्रस्य प्रारम्भः, 128 पत्राङ्कस्य यद्यपि प्रमादादिना केनापि कारणेन अत्राभावः, तथापि प्रन्थोऽत्र अखण्डित एव भाति ।। १५ मानसस्पर्शनादि ॥१६ शब्दोलखोऽन्तर्जल्पाकारः|| १७ शब्दलक्षणमर्थम् ।। १८ अयं घट इति बहिर्मुखप्रतिभासात् ।।
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org