________________
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे सर्वथाऽपि हीयेत । यदा तु भेदोऽप्यस्ति तदैकत्वमपि न विरुध्यते । अणुत्वं चाऽविरोधीति सम्बन्ध: । अल्पतराभावात् , विवक्षितादणोरन्यस्य कस्यचिदप्यल्पस्याभावात् । परमाणवो हि भावांशैः सांशा अप्यनेकत्वं स्थूलत्वं च न भजन्ते, द्रव्यांशेरेव सांशस्य तद्रूपत्वात् । एतेन यदुक्तम्___ "मध्यव्यवस्थितस्याणोः पूर्व-पश्चिम-दक्षिणोत्तरा-ऽधर्वव्यवस्थितैः परमाणुभिर्योगो 5 ऽस्ति । न चैकेनैव रूपेण सर्वैरपि सम्बध्यते, यदि हि यत्रासौ सम्बध्यमान एको व्यवस्थिस्तत्रापगेऽपि भवेत्तदा स्यादेकेनैव रूपेण सर्वेषामभिसम्बन्धः । तच्च नास्ति, परमाणूनां सप्रतिघत्वात् । अस्ति चाभिसम्बन्धः । ततो मध्यव्यवस्थितस्य पडंशत्वप्रसङ्गः" [ ] इति ।
तदवाधकमेव, भावांशैः सांशत्वस्याभ्यनुज्ञानात् । न चाणुत्वव्याघात:, अल्पा- 10 न्तरस्याभावात् । यदा तु परमाणवः स्कन्धोपादानकारणमेकानेकात्मकाः सिद्धास्तदा 125A तेन्निबन्धनस्तजन्मा स्कन्धोऽपि स्कन्धरूपो घटादिरप्यर्थ एकानेकात्मकः प्रमाणोपपन्नो जातः, कारणावतध्ये हि कार्यस्यावितथत्वात् ।
सम्प्रत्युपसंहरनर्थसाधकमनुमानमाह-तदिति । नानारूपत्वाद् विचित्ररूपत्वात् क्रमज्ञानं नानासन्तानजन्यम् , एकसन्ततिविज्ञानानि विचित्राणि विभिन्न विजातीयकारणसन्तानकार्याणि। 15
अन्यथेति यदि नानासन्तानजन्यत्वं नेष्यते तदा निर्हेतुकत्वं नानारूपत्वस्याऽहेतुत्वं 125 स्यात् । कार्यनानात्वं हि कारणनानात्वेन व्याप्तम् , कारणनानात्वं च सन्ताननानात्वम् ,
न पुनः क्षणनानात्वम् । न खलु क्षणभेदात् कार्यभेदो युक्तो यतः प्रबन्धवति चक्षुर्विज्ञानोत्पादे परस्परविमिन्ना अपि चक्षुःक्षणा एककार्यकारिणो दृश्यन्ते, हेतुप्रत्ययसन्तानाविशेषात् । तस्माद् यद्भेदेऽपि यन्न भिद्यते न तत् तद्भेदभेदम् , यथा 20 बीजभेदे धूमः। क्षणभेदेऽपि च कार्यमभिन्नमतो न तथा । सन्ताननानात्वं पुनः कार्यनानात्वं न कदाचिदपि व्यभिचरति । ततः कारणसन्ताननानात्वेन कार्यनानात्वं व्याप्तम् । अस्ति चैकस्यामपि सन्ततौ नील पीतादिभेदेन ज्ञाननानात्वम् । ततस्तदपि विजातीयमिन्नसन्तानजन्यम् , ज्ञानसन्तानाच विजातीयः सन्तानोऽर्थ एव । यदवोचाम१ तनिबन्धनः स्कन्धोऽपि एकानेकात्मकः ॥ २ तन्नानारूपत्वात् कमज्ञानं नानासन्तानजन्यम् ॥ ३ नीलपीताद्यर्थ ॥ ४ अन्यथाऽहेतुत्यमपि ॥ ५ उपादान-सहकारिसन्ताना ॥ ६ तद्भेदात् भेदो यस्य ।। ७ बहुभिः शाल्यादिभिभिन्नैयथा दह्यमानैरपि एक एव धूमो भवन् [न] तभेदभेदी भण्यते ॥ ८ क्षणभेदभेदी || ९ ज्ञानसन्ततौ ।।
25
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05