________________
बौद्धसम्मतझानार्थक्य निराकरणम । क्रमेण वा जन्तूनां यदि प्रीति-तापादिकमुपजनयति तदा को दोष: । एकरूपत्वे हि भावानामेतद्विरुध्यते, नानेकरूपत्वे ।
नन्वेको युगपद्विरुद्धक्रियाद्वयकारी कथं घटत इति, उच्यते- सदिति, सद्रूपता 123B सच्चमसदूपता चासत्रम् , अपिरतिशयोक्ती, एकस्यैव तावद् युगपत् सवासच्चे दुरुपपादे,
ततस्ते अपि यत्रास्मसिद्धान्ते एकत्रैकस्मिन् वस्तुन्यङ्गीक्रियेते. कस्तत्राघटमानविधान- 5 पटीयसि सिद्धान्तेऽन्यानवसरोऽन्यस्य युगपद्विरुद्धग्रीति-तापादिक्रियाहेतुत्वस्थानवकाशः स्यात् , अवकाश एवेत्यर्थः । यथैकमपि घटादिवस्तु सामान्यविशेषात्मकं सदसद्रूपमभिलाप्यानभिलाप्यं नित्यानित्यं च युगपदेव भवति प्रमाणेन तथैव प्रतीयमानत्वात् प्रमाणप्रतीते चार्थे विरोधाभावात् तथैकोऽपि शब्दादिर्यदि युगपदनेकस्य क्रमेणैकस्य प्रीति-सन्तापहेतुर्भवति तदा भवतु नाम, को दोषः, तस्य तथैव स्वहेतुभ्यः समुत्पादात् । 10 इदमत्र रहस्यम्-एक एवार्थ एकस्मिन्नेव समये एकस्यैव पुसः प्रीति-तापादिहेतुभवन् विरुध्यते, न पुनरेकस्यैव समयभेदेन समयाभेदेऽपि वानेकस्य । एकश्चैकदैकस्यैव प्रीति-तापादिहेतु स्त्येव, ततः कुनो विरोध इति । ____ अत एवाणोरेकस्य षडंशतापि । भावभेदेऽप्येकत्वमविरोधि, स्यादभेदात् । अणुत्वं च, अल्पतराभावात् । तन्निबन्धनः स्कन्धो- 1 ऽपि एकानेकात्मकः । तत् नानारूपत्वात् क्रमज्ञानं नाना
सन्तानजन्यम् , अन्यथाऽहेतुत्वमपि । 124 अत एवेति । यत एवैकोऽपि प्रीति-तापादिहेतुर्यत एव चैकस्मिन्नपि घटादौ
सदसदूपते भवत: अत एवास्मादेव निदर्शनादणोः परमाणोरेकस्यापि द्रव्यरूपतयाऽदयस्यापि षडंशतापि षड्दियोगेन पटेस्पर्शपर्यायवत्तापि भवति । यथकस्य विरुद्धा- 20 नेकक्रियाकारित्वं सदसद्रूपत्वं वा न विरुध्यते युक्तिमिरुपपादितत्वात् तथैकस्याप्यणो
स्नेकांशत्वं न विरुध्यत एव । नन्वंशा द्रव्यामेदिनस्तत्कथं परमाणुद्रव्यमनेकमेव न 124B स्यादिति । न, भावभेदेऽपि भावरूपांशानामनेकत्वेऽपि एकत्वमविरोधि, परमाणु
द्रव्यस्यैकत्वं न विरुध्यते । स्यात् कथश्चित परमाणुद्रव्यतो भावांशानां 'भेदात् । यदि हि द्रव्य-पर्याययोरेकान्तेनैवाभेदो भवेत् तदानेकपर्यायाभेदेन द्रव्यस्यैकत्वं 25 १ सदसदूपत अपि यत्रैकत्र, कस्तवान्यानवसरः ?॥२ पुरुषस्य प्रीति-तापादिहेतुः ।। ३ नानारूपसन्तानजन्यम् , अन्यथाऽहेतुत्वमिति इति मूलादर्श पाठः॥ ४ अत एवाणोरेकस्य षडंशतापि ॥ ५ स्पर्शः संयोगमात्रम् ॥ ६ प्रीति-तापादि ॥ ७ भावभेदेऽपि एकत्वमविरोधि स्यादऽभेदात् ।। ८. अत्र मूलादर्श टिप्पणे च 'अभेदात्' इति पाठो वर्तते। टीकायां तु भेदा इति लिखित्वा तदनन्तरं चत्वारि पञ्च वा अक्षराणि पृष्टानि वर्तन्ते, ततः परं त् इति वर्तते ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org