________________
७८
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अत्र परस्य जडत्वमुपदर्शयन्नुत्तरमाह-अपरमार्थस्य जलधारणाद्यर्थक्रियाकारिणो 121B घटाद्यर्थस्य भावनाऽनित्या-ऽनात्मकादिरूपेण चिन्तनं परमार्थावताराय परमार्थनये जनमव
तारयितुं प्रभवतीति वदतो वादिनो महती श्रद्धा लक्ष्यते। स्वसिद्धान्तोदितार्थश्रद्धालय एव ह्येवं वदन्ति न पुनस्तार्किकाः। घटादिरों हि सर्वप्रकारमविद्यमानोऽपि विचित्र भावनामिर्भाव्यत इत्येतदपि तावदागमेकशरणे: श्रद्धालुमिरेवावगन्तुं शक्यम् , यत् पुनरसो तथा भाव्यमानः 5
परमार्थनयावताराय प्रभवति तदत्यन्तश्रद्धावतामपि मनाग् मनसो 'विचिकित्सामुप1224 जनयति । अत्रैवार्थे दृष्टान्तमाह- नै खलु ध्यानशतैरपि विचित्रकारध्यानैरपि भाविता
मरीचिकाः पयसीभवन्ति पयोऽमिर्थक्रियां कुर्वन्ति । अपि च, मरीचिकानां पयसश्च स्वलक्षणत्वादद्यापि कथमपि ध्यानानुभावतो मरीचिकाः पयसीभवन्ति इति श्रदीयते, घटादयस्तु भावाः सर्वथाऽप्यपरमार्थसन्तो भाव्यमानाः परमार्थहेतवो भवन्तीत्येतच्छद्धा- 10 गम्यमपि न भवति । तदर्थापलापिनां परमार्थावतारार्थमपि बाह्यार्थप्रवत्तिनिवृत्तिहेतुप्रमाणाप्रमाणलक्षणप्रणयनं न साधीयः । तत् तस्मादर्थ एव बाह्यार्थ घटादो सत्येव
सर्व साधीयः सर्व प्रमाणेतरव्यवस्थादिकं युक्तं भवति । 1228 ननु यदि बाह्यार्थः परमार्थस्तदैकरूप एव शब्दादिर्थः कथमेककालं जन्तूनां
प्रीति-सन्तापादिहेतुर्भवति । तथाहि तेनैव गीतध्वनिना हरिणो हियते, प्राणिविशेष: 15 पुनः कोऽपि श्रवणादेव दुःखी भवति, तथा तेनैव गन्धेन मनुष्यः सुकरश्व, तथा तेनैव रसविशेषेण लवणारव्ये नोष्ट्रो मनुष्यश्च, तथा लेष्मप्रकृतिः पित्तप्रकृतिश्च यथायोगं सुखी दुःखी च भवति । तस्माद्यथैकोऽों नीला-नीलरूपो न भवति नीलत्या. ऽनीलत्वयोर्विरोधात्तथा नैकोऽर्थ इष्टानिष्टरूपो भवति, तयोविरोधादेव । भवति चैकस्मिन्नप्यर्थे बहूनां प्रतिपत्तृणां युगपदिष्टाधाभासः प्रत्ययः, ततो नार्थः परमार्थ इति । 20
अनोच्यते -
स द्रव्याद्याहितविश्वशक्तिः क्रमाक्रमाभ्यां सातासातोदयक्षयहेतुः । सदसद्रूपते अपि यत्रैकत्र कस्तत्रान्यानवसरः ? 123A स इति स शब्दादिरों द्रव्याद्याहितविश्वशक्तिद्रव्य-क्षेत्र-मावैः सहकारिभिरुप
जनित विचित्रपरिणामः क्रमाक्रमाभ्यां पर्याय-योगपद्याभ्यां सातासातोदयक्षयहेतुः, सातं 25 सातवेदनीयं कर्म, तदितरदसातम् , तयोरुदयो विपाकः फलदानकालः, क्षयो नाशः, तयोर्हेतुनिमित्तं भवति । शब्द-गन्ध-रसादिग्र्थो हि द्रव्यादिभिराहितविचित्रशक्तियुगपत् १ अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा ॥ २ जुगुप्साम् ॥ ३ न खलु ध्यानशतैरपि भाविता मरीचिकाः पयसीभवन्ति ॥ ४ तदर्थ एव सर्व साधीयः॥ ५ प्रतिभासः ॥ ६ ज्ञानम् ॥ ७ स द्रव्याघाहितविश्वशक्तिः क्रमाक्रमाभ्यां साहासातोदयक्षय हेतुः ॥ 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org