________________
बौद्ध सम्मतज्ञानाथैक्य निराकरणम् ।
स्यान्मतिः- वासना विद्यमानाऽपि यत्र निजरूपानुगुणं कार्यं न करोति तत्र 1198 प्रामाण्यव्यवस्थाऽन्यत्र न्वप्रामाण्यस्थितिरिति तदयुक्तम्, यस्मात् वासनायाः सन्ध्यसन्धी अपीति, वासनायाः सन्धिः स्वानुरूपकार्यकरणम् असन्धिस्तु स्वानुरूपकार्याकरणम्, तावपि सदा सर्वकालं स्याताम्, विशेषकाभावात् सन्ध्यसन्धिलक्षण विशेषकारिणः कस्यचिदपि पदार्थस्याभावात् । तथाहि - विज्ञानतच्चमेवैकमिष्यते नापरम्, ततो विज्ञान - 5 रूपस्योपादानकारणस्य सर्वदापि सद्भावाद्वासनायाः सन्धिर्वा स्यादसन्धिर्वा ततो व्यवहारापेक्षयाऽपि सर्वमपि विज्ञानं प्रमाणं वा स्थादप्रमाणं वा । न चैवम्, अतः कौदा120A चित्कौ वासनासन्ध्य सन्धी कदाचिद्भा विनावुपादानादपरमपेक्षेते स्वोपादानकारणात् किञ्चिदन्यत् प्रत्ययान्तरं कादाचित्कम्, यतः कादाचित्कौ भवतस्तदपेक्षेते । स चास्माकमर्थः ।
"
अपि च यदि नार्थस्तवं तदा किमिति लोकानां तत्र प्रवृत्यप्रवृत्यर्थं प्रमाणा - 10 sप्रमाणलक्षणं कृतम् । यस्मान्नं चातत्त्वार्थम्, तत्वं परमार्थः, न तच्चमतन्त्रमर्थक्रियाथिनामर्थे प्रवृत्ति निवृत्तिव्यवहारः, तदर्थं तन्निमित्तं विभागप्रणयनप्रयासः प्रमाणाप्रमाणयोक्षणभेदकथनप्रयासः श्रेयान् । सर्वा अपि हि प्रेक्षापूर्वकारिणां प्रवृत्यो नानर्थफलाः, किं तर्हि ? परमार्थफलाः, ततो यदि बाह्यार्थः परमार्थ एव न भवति तदा किमिति 1208 तत्क्रियार्थिनां तंत्र प्रवृत्ति निवृत्तिहेतवे प्रमाणाऽप्रमाणलक्षणं प्राणायि ? तल्लक्षणप्रणयना - 15 न्यथानुपपस्यापि बाह्यार्थः सिध्यति ।
७७
ननु परमार्थनये जनमवतारयितुं व्यावहारिकप्रमाणाऽप्रमाणलक्षणमुक्तम् । विदितव्यावहारिकप्रमाणाऽप्रमाणलक्षणो हि पुमान् परमार्थनये समवतरति । यदाहु:
-
,
" पारमार्थिकमपि प्रेमाणं न निर्हेतुकम् न च भावनाव्यतिरिक्तो हेतु:, भावना च सव्यवहारिक प्रमाणपरिच्छिन्नार्थविषया, ततश्च तत् सांव्यवहारिकं प्रमाण 20 सम्यग्निरूपितं पारमार्थिकज्ञानहेतुः सम्पद्यते, ततस्तद्विषयो यत्नः परमार्थविषय एव । 1210 मिथ्याज्ञानेन हि विषयीकृता भावा नित्यादिभिराकारैर्भाव्यमाना न पारमार्थिकज्ञाननिबन्धनं भवन्ति, अनित्यादिभिस्त्वाकारैमव्यमाना निबन्धनं भवन्त्येव, तस्मादेतो व्यामोहं व्याय परमार्थनयेऽवतारयितव्यो जनः, स्थूलविषयत्वार्देस्य व्यामोहम्य, एतद्वयामोहनिवृत्तिपूर्विका च परमार्थप्राप्तिः " [ ] इति । तस्मात् परमार्थावतारणफलो विभागप्रणयनप्रयासः कथं न श्रेयान् स्यादिति ?
Jain Education International 2010_05
For Private & Personal Use Only
१ वासना सन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् ॥ २ कादाचित्कौ तूपाटानादपरमपेक्षते ॥ ३ न चातत्त्वार्थ विभागप्रणयनप्रयासः श्रेयान् ॥ ४ अर्थ | ५ तत्त्वज्ञानम् || ६ सत् ।। ७ सांव्यवहारिकेण प्रमाणेन || ८ सांव्यवहारिकात् प्रमाणात् ॥ ९ * " प्रामाण्यं व्यवहारेण शास्त्र मोहनिवर्तनम् ।" [१७] इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणवार्तिके || १० नित्यत्वादिरूपस्य ॥ 30
25
www.jainelibrary.org