________________
७६
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अथ ज्ञानस्य स्वगतेयमसत्प्रकाशनशक्तिर्यया बाह्यार्थाभावेऽपि नीलपीवाद्याकारवैचित्र्यमुहत इत्युच्यते । अर्थाभावेऽपीति कुतो लभ्यम् ? ज्ञानमात्रस्यैव घटनादिति चेत् , तदिदं स्वयमेव विचारयितव्यतया सन्देहतुलाधिरूढं कुतोऽर्थाभावं निश्चाययेत् ? अथार्थस्य प्रमाणबाधितत्वादिति पे, तत्र तावद्यावन्ति प्रेमाणानि प्रत्य.
पाद्यन्त तावन्त्यप्रमाणत्वसमर्थनेनाऽबाधकपक्षे न्यक्षिप्यन्त । सम्प्रति प्रमाणान्तरमनुसर। 5 118A न चाप्रमाणको भावोऽभावो वा कस्याप्युपपद्यते । तस्माद्वाह्यार्थाभावे सति विज्ञानशक्तिपरिकल्पनमुपशोमते, स एव चासिद्ध इति यत् किञ्चिदेतदपीति ।।
तदेवं परप्रणीतं बाह्यार्थाभावसाधकं प्रमाणमुन्मूल्यार्थाभावाभ्युपगमे परस्य मुक्तकक्षणान्यपि दातुकामः प्राह
अन्यथा भ्रान्तेतरास्थितिः, निवन्धनाभावात् । सक्लेश- 10 सन्ततेरपि विभागोऽस्ति । वासनासन्ध्यसन्धी अपि सदा स्याताम्, विशेषकाभावात् । कादाचित्कौ तूपादानादपरमपेक्षते । न चातत्त्वार्थ विभागप्रणयनप्रयासः श्रेयान् । अपरमार्थभावना परमार्थावतारायेति महती श्रद्धा । न खलु ध्यानशतैरपि भाविताः मरीचिकाः पयसीभवन्ति । तदर्थ एव सर्व साधीयः । 15
__ अन्यथा प्रान्तेतरास्थितिः, यदि ज्ञानार्थयोरभेद इष्यते तदा भ्रान्तेतराऽस्थितिः, इदं ज्ञानं भ्रान्तमिदमभ्रान्तमियं स्थिति स्यात् , निबन्धनाभावात् व्यवस्थाहेतोरभावात् । अर्थव्यभिचाग-ऽन्यभिचारनिबन्धना हि प्रमाणानां भ्रान्ता-ऽभ्रान्तव्यवस्था । अर्थश्च
सर्वथापि नेष्टः, ततो निबन्धनाभावात् किंकृतेयं स्थितिभवेत् ? तथा च द्विचन्द्रकचन्द्र118B ज्ञानयोगविशेष: स्यात् ।
20 _स्यान्मतम्-क्लेशप्रहाण्यपहाणी ज्ञानाभ्रान्तत्व प्रान्तत्वयोर्निबन्धनम् । क्षीणक्लेशस्य ज्ञानमभ्रान्तम् ,अन्यस्य भ्रान्तमिति । तत्र, यस्मात् सक्लेशसन्ततेरपि अविद्यादिकलुषज्ञानसन्तानस्यापि भवन्मते विभागो भ्रान्ताभ्रान्तत्वव्यवस्थाऽस्ति । तस्यैव हि पुरुषस्य किश्चिद् विज्ञान प्रमाणमिष्यते किश्चिचाप्रमाणम् । स चैप विभागः कथमेकस्मिन्नेव ज्ञानसन्तानेऽविद्याजनितत्वाविशेषे सङ्गच्छते ।।
25 १ घटनम् ॥ २ 'अर्थाभावेऽपि इति कुतो लभ्यम्' इत्यस्य प्रभस्य द्वितीयं समाधानमिदं परेणोक्तम् ॥ ३ अर्थाभावसाधकानि ॥ ४ अन्यत् प्रमाणमर्थाभावसाधन बृहीत्यर्थः ॥ ५ सक्लेशसन्नतेरपि विभागोऽस्ति ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org