________________
बौद्धसम्मतज्ञानार्थंक्य निराकरणम् । 116 तदपि 'विनेयचेनोभिर्व्यभिचारित्वादुपेक्षामहति । सर्वज्ञचेतसा हि परिच्छिद्यमानानां विनेयचेतसां प्रकाशः प्रकाशकानातिरिच्यते न च तानि प्रकाशकान्न भिद्यन्ते ।
ननु यज्ज्ञानं तत् सर्वमनालम्बन, स्वमज्ञानवदिति । तदत्र ज्ञानत्वादिति हेतोरुत्पन्नस्य साध्यज्ञानस्य यदि निरालम्बनत्वविशिष्टं नीलज्ञान विषयस्तदा तेनैव व्यभिचारः । अथ न विषयः, कथं तर्हि हेतुना नीलज्ञानस्य निरालम्बनत्वं परः प्रतीयाद , 5 निर्विषयत्वाविशेषेण सालम्बनन्वस्यापि प्रतीतिप्रसङ्गात् ।
यदिवा स्वप्नज्ञानस्य कथं निरालम्बनत्वमधिगतोऽसि ? जाग्रदवस्थायां बाधक116B स्योत्पादादिति चेत् , तत् तर्हि सालम्बनं स्यात् , तद्विरुद्धविषयग्रहणमन्तरेण बाधकत्वा
योगादिति तेने व्यभिचारः ।
__ अस्तु तीदृष्टान्तकमेवानुमानं व्याप्तेविपक्षे बाधकादेव सिद्धत्वादिति चेत् , 10 किमिदं बाधकम् ? परस्य परनिष्ठत्वविरोध इति चेत् । कोऽयं परम्य परनिष्ठत्वाभावः । यदीतरेतरामेकान्तभेदः स प्रत्युत सालम्बनत्वं प्रयोजयति, "एकान्तामेदे आलम्बनस्यालम्मकस्थ वा कस्यचिदपि व्यवस्थापयितुमशक्यत्वात् । अथ
परस्य पररूपानभिज्ञत्वम् , तदस्तु नाम, कचित् जैडेन जैडरूपस्याअँडरूपस्य वाऽपरि117A ज्ञानात् । न हि घटो घटान्तलामात्मज्ञानरूपं वा वेत्तीति नावभ्युपगमः । अंजडेना- 15
ऽपि पररूपं न बुध्यत इति तु वाचोयुक्तिरसाधीयसी । तद्धि स्पष्टं बोधरूपमेव २ भवति यत् परं किमपि नावबुध्यते, स्पष्टयोधरूपम्य परापेक्षत्वात् । न ह्यमति छेद्ये काचिच्छिदा नाम । त्वमपि वा ब्रया यदि किमपि नीलादिवेद्यनिरपेक्षं स्पष्ट बोधरूपमनुभवसि । आकार एव नीलादिकं वेद्यमस्तीति चेत् , तस्य पुनर्नीलपीतादिभेदेन वैचित्र्यं कुतस्त्यम् ? न तावत् स्वसन्ततिमात्रतः, तस्या एकरूपत्वात् कार्य- 20
वैचिव्यस्य च कारणवैचिच्यानुपारित्वात् । ततः सन्तानान्तरसाहित्यतो वक्तव्यम् । 117B तच्चादिन्यन्न जानीमः । ततो यत्सम्पर्कादसी विज्ञानगत आकारो भिद्यते स एव
ज्ञानविषय इति सिद्धं सालम्बनत्वम् ।
१ विनेयचेतांसि बौद्धेनैव भिन्नानि मेनिरे ॥ २ चेतांसि ॥ ३ सर्वज्ञज्ञानात् ॥ ४ सर्वे प्रत्यया निरालम्बनाः ॥ ५ जाग्रदवस्थायां न कोऽप्यर्थो दृष्टः ॥ ६ ज्ञानस्य ॥ ७ कुतः ॥ ८ स्वप्नजानेन गृहीतो यः पदार्थस्तस्य 25 विरुद्धो योऽमावलक्षणो विषयस्तद्हणमन्तरेण ॥ ९ जाग्रदवस्थाभाविना ज्ञानेन ॥ १० अन्तर्व्याप्यैव ॥ ११ ज्ञानस्य ॥ १२ अर्थनिषत्वं ॥ १३ कुतः !! १४ यतः सर्वे भावाः स्वस्वभावव्यवस्थिता इति ॥ १५ अर्थेन ।। १६ अर्थस्य ॥ १७ ज्ञानस्य ॥ १८ आवयोः ।। १९ ज्ञानेन । २० स्वप्नावस्थाव्यवच्छिन्त्यै ।। २१ ज्ञानस्य ।। २२ ज्ञानस्थ या स्वसन्ततिः ।। २३ न चैवमेव भवतीति वाच्यमित्याह ।। २४ वैचित्र्यम् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org