________________
७४
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे एव प्रासादः श्वेतत इति भवति । अर्थः प्रकाशत इति सामानाधिकरण्यं च न स्यात् ।
न हन्यत्र स्थितेन नीलिम्ना पटो नील इति व्यपदिश्यते । अथ स्वयं ज्ञानरूपत्वात 114B तर्हि सिद्धं प्रकाशमानत्वाद् ज्ञानरूपत्वं नीलादीनामिति ।
तैदिह तावत् सर्वज्ञज्ञानेन विनेयचेतसां प्रकाशोऽस्ति । न चामीषां सर्वज्ञज्ञानादृतेऽन्यः प्रकाशो नाम । न चैतानि तद्रूपाणि, सर्वज्ञज्ञानस्य भिन्नसन्तानरूपत्वात् । 5 यच्च विनेयचेतसां स्वसंविदितत्वं नाम स्वं रूपं न स एव प्रकाशो वक्तव्यः । तस्य भिन्नसन्तान प्रत्यप्रयोजकत्वात् । अन्यथा छद्मस्थानामपि परचित्तसाक्षात्करणप्रसङ्गः । ततो यथा पररूपेणाऽपि सर्वज्ञज्ञानेन विनयचेतांसि प्रकाशन्ते तथाऽर्थोऽपि भविष्यति । न चायं जड इति विनेयचेतत्तुल्यता नाहति, विज्ञानरूपत्वस्य स्वविदितत्व एवो
पयोगित्वात् परप्रत्यक्षता प्रति पुनरतिप्रसङ्गेन निरुपैयोगित्वात् । सामानाधिकरण्यमपि 115A विनेयतोभिः समानयोगक्षेमम् ।
यदि चा(वा?)थग्रहणपरिणामं ज्ञानमर्थप्रकाशस्तैद् यदा "संवेदनेन प्रकाशते तदार्थः प्रकाशत इत्युच्यते ।
ननु परचेतास्यपि पृथग्भूनेन ज्ञानेन नैव प्रकाशन्ते । तथाहि-भगवान् परचित्तं प्रतिपद्यमानस्तदाकारमात्मचित्तमेव वेदयते । तद्यदत्र प्रकाशते तच्चित्तरूपमेव,
ततो मिन्नेन प्रकाशेन प्रकाशो न भवतीति नियमस्य न व्यभिचारः । न चैवं पर- 15 115B चेतसामर्थवदभावप्रमङ्गः, "तेषां स्वसंवेदनप्रत्यक्षसिद्धत्वादिति । तदेतदर्थेऽपि समानम् ,
अर्थग्रहणपरिणामम्य ज्ञानधर्मस्य ज्ञानाभिन्नत्वेनाभ्यनुज्ञानात् । न चैवमर्थाभावः प्राप्नोति, बाह्यार्थस्यानुमानात् साधयिष्यमाणत्वात् ।
स्यादेतत्-यस्य प्रकाशः प्रकाशकानातिरिच्यते न तत् प्रकाशकाद् मिन्नम् , यथा ज्ञानं स्वप्रकाशकात् संवेदनात् , अस्ति चार्थप्रकाश-प्रकाशकयोरभेद इति । 20 १ अन्यत्र नृस्थेन शानेन कथमर्थः प्रकाशते ॥ २ नीलादयः प्रकाशन्त इति सम्बन्धः ।। ३ उच्यते ॥ ४ सर्वज्ञजानरूपाणि ।। ५ सर्वज्ञानप्रकाशः ॥ ६ विनेयचेतसा स्वसंविदितत्व ।। ७ सार्वज्ञसन्तान प्रति ॥ ८ भिन्नसन्तानस्थेनापि || ९ प्रकाशिष्यते इत्यर्थः ॥१० अजडावेन कृत्वा ज्ञानेन परस्य ॥ ११ मिन्नसन्तानस्थस्य ज्ञानस्यात्मा प्रत्यक्षः कार्य इत्येवं नोपयोगित्वम् ।। १२ यथा सर्वज्ञज्ञानेन विनेयचेतांसि प्रकाशन्ते इति सामानाधिकरण्यं तथा ज्ञानेनाऽर्थः प्रकाशत इति तुल्यता ।। १३ *अत्र चार्थ इति पाठः यद्वा 25 वार्थ इति पाठ इति सम्यग् निश्चतुं न शक्यते, हस्तलिखितादर्श 'च व' इत्यनयोः समानप्रायत्वात् ॥ १४ १' [प्रथमाविभक्त्यन्तमेतत् ] | * अत्र अक्षरस्य धृष्टत्वात् °णामः इति °णाम इति वा पाठो भाति, प्रथमाविभक्त्यन्तमेतत् पदम् ॥ १५ ज्ञानम् ॥ १६ स्वस्वरूपेण ॥ १७ परचित्ताकारम् ।। १८ ज्ञानरूपमेव ।। १९ चेतसाम् ।। २० अर्थाकारे ज्ञाने वेद्यमानेऽर्थः प्रकाशत इति कृत्वा ।। २१ कुतः ।। २२ अर्थस्य ॥ २३ ज्ञानात् ॥ २४ स्वस्वरूपात् ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org