________________
बौद्धमम्मतज्ञानार्थक्य निराकरणम । तेत एव स्वभाव विशेषादेकोपलम्भनियमोऽपि उपलभ्यानामनेकत्वेऽप्युपलम्भकत्वनियमोऽपि अस्तु । यथा स्वभावविशेषात् केपाश्चित् महेव सत्ता नियमस्तथा केषाश्चिदुपलभ्याना. मनेकत्वेऽप्युपलम्भकत्यनियमोऽप्यस्त्विति अपार्थः । परस्परं ह्येकान्तभेदिनामपि
कुतश्चित् स्वभावविशेषात् तावत् केषाश्चित् सहैवावस्थाननियमो दृष्टस्तत एव केपाश्चि110A देकोपलम्मनियमोऽपि भवेत् , को दोष: स्यात् ? विचित्राचिन्त्यशक्तयो हि भावा 5
न छाम्थबुद्धिभिर्विचारयितुं शक्याः । तथा च ज्ञानार्थयोः पृथक सम्वेऽप्येकोपलम्भनियमोऽपि न विरुध्यते ।
ऐतेन यदुक्तम्
"एतदुक्तं भवति न भित्रयोनियतः सहोपलम्भोऽन्योन्यसम्बन्धमन्तरेण । स च तादात्म्यनिमित्तकस्तावत् स्वयमनभिप्रतः । तदुत्पत्तावपि वेति-धूमयोरिव सहोपलम्भ- 10 व्यभिचारः । 'विषयविषयिभावलक्षणम्तु साकारपक्षे निराकृत एव । निराकारपक्षे
ऽप्युक्तम् " [ प्रमाणविनिश्चपटीका पृ० १८६ A] इति, 110A तत् प्रतिव्यम् ।
__ स्यादेनन्-ग्राह्यभेदः प्रतिबन्धाभावात् सहोपलम्भानियमेन व्याप्तः. अस्ति च ज्ञानार्थयोर्भेदः, तथा च सेहोपलम्मानियमोऽपि प्राप्नोति । तथा च " यद् येन 15 नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते यथैकस्माञ्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्च ज्ञानेन सह ग्राह्याकारो नीलादिः" [प्रणाणविनिश्चयटीका पृ० १८९]
इत्यमिधायोक्तम्-"भेदः सहोरलम्भानियमेन व्याः प्रतिबन्धाभावात् , तस्य विरुद्धः VITA सहोपलम्भनियमः, तेन व्यापकविरुद्धेने भेदो निराक्रियते" [प्रमाणविनिश्चयटीका
पृ १८९४-१९०A] ततो यदि ज्ञानार्थयोरभेदो न स्यात्तदा सहोपलम्भनियमोऽपि न स्यादिति । 20
तदपि न,
१ तत एवैकोपलम्भनियमोऽप्यस्तु ॥ २ स्वभावविशेषादेव एकोपलम्भनियमसमर्थनेन ।। ३ धर्मात्तरे ॥ ४ त्वया मया च सहोपलम्भो न तादात्म्यनिमित्तकोऽभिप्रेतः॥ ५ प्राग्भावि कारणम् , पश्चाद्भावि कार्य यतः ।। ६ अर्थ ।। ७ ज्ञान || ८ साकारे जाने पूर्वस्यापि ज्ञानस्य ग्राह्यत्वं स्यात् ॥ ९ बोधमात्रस्याविशेषात् नियतग्राहकत्वाभावमणनेन || १० ग्राह्याणां भेदः ॥ ११ एकोपलम्भ ॥ १२ ५' पञ्चम्यन्तं पदम् ] || 25 १३ इदं वक्ष्यमाणम् ॥ १४ प्रतिषेध्यो ज्ञानार्थयो दः, तस्य व्यापकः सहोपलम्भानियमः, तेन विरुद्धः सहोपलम्भनियमः, तेन भेदो बाध्यते ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org