________________
111B
स्त्रोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे भेदो हि सामग्रीभेदमञ्जसा अनुरुणद्धि । उपलम्भनियमस्तु ज्ञानस्वसंविदितोत्पत्तिकृतः ।
___ हिर्यस्माद् भेदो ग्राह्यानेकत्वं सामग्रीभेदं कारणसामग्रया नानात्वमञ्जसा मुख्यतोऽवश्यमेवेत्यर्थः अनुरुणद्धि । पदार्थानेकत्वं हि कारणानेकत्वेन व्याप्तम् , न पुनः सहोपलम्भानियमेन । ततश्च सहोपलम्भानियमो निवर्तमानोऽपि न पदार्थानेकत्वं 5 निवर्तयितुं शक्नोति, सामग्रीभेदप्रभवस्य तस्य निवर्तयितुमशक्यत्वात् । तथा च सहो. पलम्भनियमोऽपि स्याद् ग्राह्यानेकत्वं चेति को दोषः ?
किं पुनः कारणं घट-पटयोः सह पृथक चोपलम्भः, ज्ञानार्थयोः पुनः सर्वदा सहैवो. पलम्भः, अथ च परस्परं भेद उभयत्राप्यविशिष्ट इति ? उच्यते-उपैलम्भनियमस्तु ज्ञानार्थयोरुपलम्भकत्वनियमः पुननिस्वसंविदितोत्पत्तिकृतः, ज्ञानस्य स्वसंविदितस्य सतो 10 योत्पत्तिस्तनिवन्धनः ।
__ज्ञानं हि स्वसंविदितमेवोदयते, स्वसंवेदनं च ज्ञानोपलम्भो नान्यत् । अर्थोपलम्भोऽप्यर्थग्रहणपरिणामस्य ज्ञानस्य तादूप्येण संवेदनमेव । तथा च सत्येक एव
सवेदाऽप्युपलम्भो भवति । अथेग्रहणपरिणामरूपज्ञानवेदनस्यार्थोफ्लम्मरूपत्वात् तस्यैव 112A च ज्ञानोपलम्मत्वात् । यदि हि प्रथमं ज्ञानमस्वसंविदितमुत्पद्यते तच्चार्थोपलम्भ इति 15
कथ्येत पश्चाद्न्पन्नज्ञानग्राहि ज्ञानान्तरं जायेत तच्च ज्ञानोपलम्भ इति गीयेन तदा स्यादेकोपलम्भानियमः। यदा च ज्ञान प्रादुर्भावमनुभवदेवात्मानमशेषविशेषमवेति प्रतिनियतरूपज्ञानसंवेदनं चार्थोपलम्भ उच्यते तदा कथमिवेकोपलम्भनियमो न भवेत् ।
न चैवं घटोपलम्भ एव सर्वदापि पटोपलम्भः, एकैकाभावेऽपि भावदर्शनात् । तस्माद् 1128 ग्राह्येकत्वाभावेऽप्येकोपलम्मनियमोऽन्यथा सिद्धो ग्राह्यानेकत्वेऽपि न दुष्यतीति । एतावता 20
ग्रन्थेने कोपलम्भनियमादिति हेतोर्विपक्षे बाधकप्रमाणाभावेन स्वसाध्यं प्रत्यन्यथानुपपन्नस्वाभाव उद्भावितः ।
शङ्करनन्दनस्वाह
" सहसंवेदनं तावन्न सहावस्थानमैतिवर्तते । सत्यपि हि संवेदने यदि नास्त्येव १. 'ज्ञानस्वसंविदितत्वोत्पत्तिकृतः' इति टीकादर्श टिप्पणे पाठः ॥ २ भदो हि सामग्रीभेद- 25 मञ्जसाऽनुरुणद्धि ॥ ३ उपलम्भनियमस्तु ज्ञानस्वसंविदितत्वोत्पत्तिकृतः ॥ ४ अर्थग्रहणपरिणामरूपेण || ५ प्रथमोत्पन्नशानग्राहि ॥ ६ यदा घट-पौ एकत्र स्थितौ ज्ञायते तदा एकोपलम्भेन गृह्यते, यदा तु पृथग्भूतौ तदा मित्रोफ्लम्भेनेति 'सर्वदापि' इति पदम् ॥ ७ उपलम्भस्य ॥ ८ ज्ञानस्वसंवेदनेन ॥ ९ एकाव” ॥ १० ज्ञानार्थयोः ॥ ११ '२' [=द्वितीयान्तमेतत् पदम् ] ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org