________________
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
एकस्यापि ज्ञानस्याऽनेकग्रहणाविरोधादनेकस्य ग्राह्यस्योर्थस्य परिच्छेदाविरोधात् । उपलम्भस्य ह्येकत्वं ग्राह्यस्यैकत्वं गमयेद् यद्येकेनोपलम्भेनैक एवार्थी गृह्यत इति नियमः 108B स्याद् यावतैकेनाप्युपलम्भेनाऽनेकोऽप्यर्थी गृह्यते, ततः कथमुपलम्भकत्वमुपलभ्यैकस्वैमवश्यं गमयेत् ।
७०
स्यान्मतिः- उपलम्भकत्वमुपलभ्यानेकत्वे न वार्यते, एकेनाप्युपलम्भेनानेकार्थग्रहणा- 5 विरोधात् । नियम एव तु वार्यते उपलम्भकत्वनियमेोऽवश्यमुपलभ्यैकत्व एव भवति । अस्ति च ज्ञानार्थयोरुपलम्भैकत्वनियमः, तत उपलभ्यैकत्वेनापि भाव्यमिति । तत्रोपलभ्याने केल्वेऽप्युपलम्भकत्वनियमं साधयितुं प्रस्तावनां रचयति
तावदु भेदेऽपि रूपादीनां सहनियमोऽस्ति, मा भूत् सर्वस्यापि इति स्वभावविशेषादसौ । तत एवैकोपलम्भनियमो - 10 ऽप्यस्तु ।
109A तावच्छन्दो लोकभाषायां प्रत्युत्तरप्रदानोपक्रमे वा । भेदेऽपि सति स्कन्धावस्थायां रूपादीनां रूप-रस- गन्ध-स्पर्शानां सहावस्थान नियमोऽस्ति । मा भूत् सर्वस्यापि पदार्थगशेरिति हेतोः स्वभावविशेषाद चिन्त्यरूपविशेषादसौ सहभावनियमो वक्तव्यः । अस्ति तावद् रूपादीनां सहभावनियमः । न चायं तादात्म्येन, अनभ्युपगमात् । अत एव न हेतुफलभावेन, सहभावित्वोच्च । न च नियामकान्तरमस्ति । अनियामकक्षेद्" भवेत् सर्वस्य स्यात् । तस्मात् तादात्म्य तदुत्पत्तिम्यामृतेऽपि रूपादीनां स्वभाव - विशेषादेषः ।
15
•
नन्वस्ति रूपादीनामेकसामग्रयधीनत्वं सहावस्थाननियमे हेतुः । रूपादयो ह्येक109B सामग्रीतः प्रसूतास्ततो भेदेऽपि सहावतिष्ठन्त इति । तत् किमेतावता रूपादीनां परस्परं 20 तादात्म्यं हेतुफलभावो वा व्याहृतः स्यात् ? कारणजनितस्तु रूपभेदो रूपादीनां परस्परमहेतुफलभृतानां स्वभावविशेषान्नातिरिच्यते । यो हि स्वतस्तादात्म्य तदुत्पच्यभावेऽपि भावानां क्वचिदविनाभावस्तमेव स्वाभावविशेषमातिष्ठामहे ।
1
१ किमुक्तं भवति ? यथैकेन ज्ञानेन बहवो घटादयः परिच्छिद्यन्ते तथा स्वसंविदितत्वाज्ज्ञानस्यात्मानमर्थ चानेकरूपं परिच्छेत्स्यति एकमेव ज्ञानम्, को विरोधः १ ॥ २२' [ = द्वितीया विभक्त्यन्तं पदम् ] || ३ नील- 25 तद्वियोरित्यत्र || ४ भेदेऽपि ॥ ५ तावद् भेदेऽपि रूपादीनां सहनियमोऽस्ति मा भूत सर्वस्यापीति स्वभावविशेषादसों ॥। ६ त्रा(ता?) वा । ७ परमाणावपि रूपादयः सन्ति परं यत् • स्कन्धावस्थायाम्' इत्युक्तं तद् बौद्धेन सह निर्विवादार्थम् ॥ ८ मा भृत् सर्वस्यापीति स्वभावविशेषादसौ ॥ ९ सहभावनियमः || १० कार्यकारणभावेन || ११ नं केवलम् अनभ्युपगमात् सहभावित्वाच्च न हेतुफलभावः ॥ १२ सहभावनियमः || १३ परस्परं स्वभावेन !!
Jain Education International 2010_05
For Private & Personal Use Only
30
www.jainelibrary.org