________________
64
बौद्ध सम्मतज्ञानार्थे क्यनिराकरणम ।
विकल्पज्ञेयमेदार्थः 'सह' शब्दोऽपि भेदिनि' ।
स तुल्यः कल्पनोत्थेऽपि,
योऽप्याह-न 'सह' शब्दोऽर्थान्तरेण विना कचिदस्तीति नीलतद्वियोः सहोपलम्भादेव नीलस्य भेदसिद्धेर्विरुद्धो हेतुरिति तदपि तस्यासमीक्ष्यभाषित्वम् । यतो भेदिन्यप्यर्थे विकल्पज्ञेयमेव मेदमवेक्ष्य 'सह' शब्दः, विकल्पविषयत्वमन्तरेण शब्दार्थ - 5 त्वाभावात् । स च विकल्पविषयो भेदो नीलतद्वियोरप्यस्ति 'नीलं दृश्यते ' इति भेदावमर्शात् ।
६९
नैक्यव्याप्तेविरुद्धता ||
]
यत् पुनरुच्यते विरुद्धो हेतुः स्यादिति तत् पापात् पापीयः । साध्यविपर्यय1078 पापनाद्विरुद्वत्वं भवति, न च सहोपलम्भो भेदेन व्याप्तः अपि त्वेकत्वेनैव " [ इति, तदपि निराँकारि । यदि नाम भेदिन्यर्थे विकल्पविषयगोचर: 'सह' शब्दस्तत् किमेतावताऽर्थान्तरनान्तरीयकत्वं न स्यात् विकल्पस्य परमार्थसद्विपयत्वेन 'भेदिन्यपि 'सह' ध्वनेरर्थान्तरनान्तरीयकत्वाव्यभिचारादिति ।
एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ? एकस्याप्यनेकग्रहणाविरोधात् ।
Jain Education International 2010_05
१ अर्थे ॥ २ नील-नीलधीलक्षणे पदार्थे ॥ ३ बौद्ध एव यच्छब्देन नैयायिकमतमाशङ्कते ॥ ४ विकल्पश्चाप्रमाणम् ॥ ५ विकल्पकल्पितयोः ॥ ६ तुर्यपादः ॥ ७ आचार्येण ॥। ८ ऽर्थः ॥ ९ पदार्थे ॥ १० विवादाध्यासितं 'अपि' शब्दसहितं 'भेदिन्यपि' इति परोक्तमनूदितम् ॥ ११ सहशब्दः ॥। १२ एकोपलम्भेऽपि कोऽवश्यं भेदाभावः ॥
स्यादाकूतम् - सहोपलम्भनियमादित्यत्र 'सह' शब्द एकशब्दार्थ: । एकोपलम्भनियमादित्यर्थः । य एव हि ज्ञानोपलम्भः स एव ज्ञेयोपलम्भो य एव च ज्ञेयोपलम्भः स एवं ज्ञानोपलम्भः । न खलु ज्ञान- ज्ञेययोः पृथक पृथगुपलम्भोऽस्ति । तदुक्तम्" तेनीयं नियमार्थो दर्शितः । ज्ञेयोपलम्भो ज्ञानोपलम्भात्मक एव, नान्यथा । ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा त्वनिवर्त्तनम् " [ प्रमाणविनिश्चयटीका 20 पृ० १८९ B - १९० A ] इति ।
ततः कुतः सहशब्दस्योभयनिष्ठत्वेन हेतुर्भेदाभावाय न प्रभवेदिति १ । न । यस्मा108A देकोपलम्भेऽपि सहोपलम्भ इत्यस्यैकोपलम्भार्थत्वेऽभ्युपगम्यमानेऽपि, कोऽवश्यं नियमेन सार्वत्रिक इत्यर्थः भेदाभावोऽभेदः । यद्यपि ज्ञानार्थयोरेक एवोपलम्भस्तथाऽपि तयोरेकत्वं न भवति । एकोपलम्भनियमस्यैकत्वसाधन नियमे विपक्षे बाधकप्रमाणाभावात् ।
25
For Private & Personal Use Only
10
15
www.jainelibrary.org