________________
स्वोपज्ञटीकासहिते व्रध्यालङ्कारे द्वितीये प्रकाशे
"
'अयं वरिवस्थितो घटः' इत्येवेम् । अत एव स्नान - पानार्थिनो घटं मृगयमाणा106A स्तमुपलभ्य बहिर्मुखा धावन्ति नान्तर्मुखाः । अन्यथा घट - ज्ञानयोरेकत्वेऽन्तर्मुखं धावेयुः । ततः स्वतो मिन्नार्थग्राहिणो ज्ञानस्य संवेदनेन बाधितत्वात् सहोपलम्भनियमो न भेदाभावाय प्रभवति ।
६८
तथाऽपीति विच्छिन्नार्थग्रहणसंवेदने सत्यपीत्यर्थः । अभाव इत्यर्थाभावेऽभ्युप- 5 गम्यमाने ज्ञानाभावोऽप्यस्तु अर्थस्येव ज्ञानस्याप्यभावो भवेत् । यथा बाह्यार्थस्य प्रत्यक्षसिद्धस्याप्यभाव उच्यते तथा ज्ञानस्य प्रत्यक्षसिद्धस्याप्यभावः किं नोच्यते ? अथ ज्ञानं संवेदनसिद्धमित्यभ्युपगम्यते तदाऽर्थोऽपि तथैवास्तां संवेदनसिद्धेरुभयत्राप्यविशेषात् ।
न केवलं सहोपलम्भनियमो विच्छिन्नग्रहणसंवेदनात् ज्ञानार्थयोर्न भेदाभावाय 10 106B तथा 'सह' ध्वनेः 'सह' शब्दस्योभयनिष्ठत्वाच्च राशिद्वयनान्तरीयकत्वाच्च न भेदाभावाय । सर्वत्र हि 'सह' शब्दप्रयोगोऽनेकवस्तुसम्भवे सत्येव भवति । ततो यदि ज्ञानार्थयोरनेकत्वं नास्ति तदा सहोपलम्भनियमादित्यत्र कुतस्त्योऽयं 'सह' शब्दप्रयोगः । तद् विच्छिन्नग्रहणसंवेदनात् सहध्वनेरुभयनिष्टत्वाच्च ज्ञानार्थयोः सहोपलम्भनियमेऽपि न भेदाभावः ।
107A
समारोपितार्थविषयाः सर्वे ध्वनयः, ततः कल्पितभेद निबन्धनः 'सह' शब्द प्रयोग: 15 कथं परमार्थभेदं साधयेत् ? तदुक्तम् - "ततः कल्पितभेद निबन्धनः 'सह' शब्द प्रयोग इति को विरोधः " [ प्रमाणविनिश्वयटीका पृ० १८५ A] इति ।
अत्राह - प्रमाणान्तरसिद्धे प्रस्तुतप्रमाणादन्येन प्रमाणेन प्रसिद्धे परमार्थाभेदे ज्ञानार्थयोस्वच्चत एकत्वे कल्पितभेदविषयत्वं स्यात्, सहोपलम्भनियमादित्यत्र 'सह 'शब्दप्रयोगस्य विकल्पारोपितभेदविषयत्वं भवेत् । सहोपलम्भनियमादित्ययमेव हि हेतुर्ज्ञानार्थयोर- 20 terests च 'सह' शब्दप्रयोगस्ततो हेतुनाऽभेदे साधिते सति 'सह' ध्वनेः कल्पितविषयत्वं 'सह' ध्वनेः कल्पितविषयत्वे च हेतोः सकाशादभेद सिद्धिरित्यन्योन्याश्रयदोषः स्याद्यदि 'सह' ध्वनेः कल्पितविषयत्वमुच्यत इति । सर्वध्वनीनां विकल्पितार्थविषयत्वं पुनः पुरः प्रपञ्चतः प्रत्याख्यास्यामः ।
एतेन यदुक्तम्
१ अभिधत्ते ॥ २ तथाप्यभावे ज्ञानाभावोऽप्यस्तु || ३ सहध्वनेरुभयनिष्ठत्याश्च ॥ ४ प्रमाणान्तरसिद्धे परमार्थाभेदे कल्पितभेदविषयत्वं स्यात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
25
www.jainelibrary.org