________________
105A
___5
बौद्धसम्मतज्ञानार्थक्य निराकरणम् । तेत् तस्माद्व्यभिचारेऽपि स्वनादौ ज्ञानस्यार्थाभावे उत्पाददर्शनेऽपि नार्थाभावः, ज्ञानमर्थ विनाप्युत्पद्यमान दृष्टम् , किमनेनार्थतत्वेनाभ्युपगतेनेत्येवं नार्थाभावो वाच्यः । प्रमाणाभासस्यैवार्थाभावे समुत्पादान , प्रमाणस्य तु नियमेनार्थसद्भाव एव भावात् ।
स्यादेवम्-ज्ञानार्थयोरमेद एव, नियमेन सहैवोपलम्भाव , चन्द्रद्वयवत् । यद् विनिश्चय:" सहोपलम्मनियमादभेदो नीलतद्धियोः ।
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।" [प्रमाणविनिश्चयः पृ० २६३B] इति । अत्राह
सहोपलम्भनियमोऽपि उभयोः सहभावनियमायाऽस्तु, न भेदाभावाय, विच्छिन्नग्रहणसंवेदनात् । तथाप्यभावे ज्ञानाभावो- 10 ऽप्यस्तु, 'सह'ध्वनेरुभयनिष्ठत्वाच्च । प्रमाणान्तरसिद्ध परमार्थाभेदे कल्पितभेदविषयत्वं स्यात् । ___सहोपलम्भनियमोऽप्युभयोः योऽयं ज्ञानार्थयोयुगपदेवोपलम्मनियमः सोऽप्युभयोरिति ज्ञानार्थयोः सहभावनियमाय युगपत् सचनियमायाऽस्तु । अयमर्थः- योऽयं सहोपलम्मनियमो ज्ञानार्थयोरेकत्वसाधनाय त्वयोपादीयते से यदि परं तयोः सहसत्तां साधयेत् । 15 परमार्थतः पुनस्ततः सहसत्तापि साधयितुं न शक्या, ज्ञानसत्वाभावेऽप्यर्थसत्ताया भावात् ।
किमर्थ पुनः सहोपलम्भनियमो माऽस्वित्याह-न भेदाभावायेति । यो ज्ञानार्थयोभेदस्तदभावाय माऽस्तु । ज्ञानार्थयोरेकत्वं साधयितुमसमर्थ इत्यर्थः । विच्छिन्नग्रहणसंवेदनात् । विच्छिन्नस्य ज्ञानाद्भिन्नासत्ताकस्यार्थस्य यद् ग्रहणं ज्ञाने प्रतिभासनं तस्य 20 संवेदनात् संवेदनप्रत्यक्षेण ग्रहणात् । स्वतो हि भिन्नसत्ताकस्य बहिरवस्थितस्य ग्राहक विज्ञानमुपलभ्यते । न खलु घटज्ञानम् 'अहमेव घटः' इत्येवमभिधत्ते, कि तर्हि ? १ तवभिचारेऽपि नार्थाभावः ॥ २ एकस्मिन् चन्द्रषिये चन्द्रद्वयोपलम्भः ॥ ३ अभेदो भेदो न, कोऽर्थः ? ज्ञानादन्योऽर्थो मिन्नो नास्तीत्यर्थः ॥ ४ ननु योर्वस्तुनोभेदामेदव्यवस्था । ततो मेद इति वचनाद् बलादपि वस्तुद्वयमायातम् । न । अमेद इति कोऽर्थः १ मेदो न भवति । ज्ञानात् किमपि मिन्नं 25 वस्तु नास्तीत्यर्थः ।। ५ नन्वस्ति भेदः-पूर्व वस्तुपलम्भः, पश्चाज्ञानोपलम्भ इति । न । अप्रत्यक्ष उपलम्मो शानं यस्य पुसस्तस्यार्थदृष्टिरर्थदर्शनं 'प्रत्यक्षोऽयमर्थः' इति न सिध्यति ॥ ६ सहोफ्लम्भनियमः ।। ७ सहोपलम्भनियमात् ॥ ८ स्वस्मात् ज्ञानात् ॥
105
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org