________________
स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे 103A शुद्धहेतुजं विति । मिद्धादिकलङ्कानङ्किते सत्यात्मनि यदत्यन्तपाटवभृतः
क्षयोपशमात् पुनः प्रादुरस्ति प्रमाणं प्रमाणभृतं ज्ञानं तदर्थाविनाभाव्येव । विना भवतीत्येवंशीलं विनामावि, न विनामावि अविनाभावि, अर्थस्य स्वविषयस्याविनाभावि अर्थाविनाभावि । अथवाऽर्थ विना न भवतीत्येवंशीलमित्येवं विग्रहः । “सन्तापाय न शक्तः असान्तापिकः सदुपदेशः" [सि. वृ० ३।११५१] इतीव च भवतिना- 5 ऽसम्बद्धस्यापि नः सामर्थ्याव समासः । पटुक्षयोपशमप्रभवमर्थग्राहि विज्ञानमवश्यमर्थ
न व्यभिचरतीत्यर्थः । तत् कुतः प्रमाणनिवन्धनो नार्थसत्तानिश्चयो भवेत् ? 103B स्यान्मतिः-एकदा तावदर्थादृतेऽपि ज्ञानमपश्यं ततोऽन्यत्रापि तथाभावशङ्का न
निवर्तते । तदपि न। यतः कस्यचिदिति स्वमाद्यवस्थाभाविनो ज्ञानस्य,भ्रान्तत्वोपलग्भोऽर्थाभावेऽपि भवनदर्शनम् , सजातीयस्यान्यस्यापि स्वप्नाद्यवस्थाभाविनो दृष्टपूर्वज्ञान- 10 सदृशस्य ज्ञानस्य तथाभावमर्थादृतेऽपि भवनलक्षणं भ्रान्तत्वं गमयति । यथा हि धननिबिडश्यामाकाराया रम्भायाः कन्दोद्भवत्वोपलम्भोऽन्यस्या अपि तथाभूताया एव तथा
भूतत्वं गमयति तथा स्वप्नाद्यवस्थामाविनो ज्ञानम्य भ्रान्तत्वोपलम्भोऽपि । 104A न ह्यग्दिशो वित्तिः सोपप्लवेति योगिनोऽपि । हिर्यस्माद् नाम्शिो वित्तिर्विज्ञानं
सोपप्लवा ग्राह्यग्राहकाकारोपप्लवसहिता इति हेतोयोगिनोऽपि सर्वज्ञस्यापि वित्तिः सोप- 15 प्लवा भवति । यदि ह्येकत्र कस्यचित् केनापि रूपेण दृष्टिस्न्यस्य तजातीयस्थान्यजातीयस्य वा तथाभावं साधरतीत्येकान्तः, तदा प्राकृतपुरुषप्रतीतीनां ग्राह्यग्राहकाकागे
पप्लवोपलम्मो योगिप्रतीतीनामपि तथाभावं साधयेत् . न चेवम् , ततः स्वमाद्यवस्था104B भाविनो ज्ञानस्य भ्रान्तत्वोपलम्भोऽन्यस्यापि तथाभूतस्यैव तथाभावं गमयति, न जाग्रदवस्थामाविनः पटुक्षयोपशमप्रभवस्यापि ज्ञानस्य ।
20
१ शुद्धहेतुजं तु प्रमाणमा विनाभावि एव || २ ५' [-पञ्चम्यन्तं पदम् ] ॥ ३ + "नञ् । ३।१।५१ । नत्रित्येतन्नाम नाम्ना समस्यते, स च समासोऽन्यस्तत्पुरुषसंशो भवति । न गौः अगौः । अनुचैः । असः । निवर्त्यमानतदावश्नोत्तरपदार्थः पर्युदासे नसमासार्थः । स चायं चतुर्धा-तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राझणः अशुक्ल इति तत्सदृशः क्षत्रियादिः पीतादिश्च प्रतीयते । अधर्मः असित इति तद्विरोधी पाप्मा कृष्णश्च प्रतीयते । अनमिः अवायुरिति अग्नि-वायुभ्यामन्यः प्रतीयते । अवचनम् 25 अवीक्षणम् इति वचन-वीक्षणाभावः प्रतीयते । ....... "प्रसह्यप्रतिषेधे तु ना पदान्तरेण सम्बध्यत इति उत्तरपदं वाक्यवत् स्वायें एव वर्तते । तत्रासामध्येऽपि यथाभिधानं बाहुलकात् समासः । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, ......"सन्तापाय न शक्तः असान्तापिकः सदुपदेशः तस्मै योगादेः शक्ते' [६।४।९४ ] इतीकण्" इति सिद्ध हेमवृहदवृत्ती ।। ४ कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति ॥ ५ श्यामाकाराया रम्भायाः ॥ 30
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05