________________
अर्थाभावनिराकरणम । इत्येवं पेरमतमाशङ्कय यदुक्तम्-" अथ किमिदानीं सतो रूपं न निर्दिश्यते ? अनिरूपितेन नामाऽयमान्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न' इति सुव्यवस्थिता
भावाः' [प्रमाणविनिश्चय: पृ० २६१ A ] इति, 102A तत् प्रत्युक्तम् । यतो निरूपितमेव विशेषस्य रूपम्-विज्ञानगतः क्षयोपशमसामर्थ्यप्रभवः प्रतिनियतार्थग्रहणपरिणामः स्वसंवेदनप्रत्यक्षो विशेषः ।
अपि च, यो हीन्द्रियप्रत्यक्षवस्तुधर्मो भवेदसौ शङ्गग्राहिकयाऽपि निर्देष्टुं शक्येत यथाऽयमीदश इति, यस्तु स्वसंवेदनप्रत्यक्षो वस्तुनो रूपविशेषः सोऽनुभवस्मारणेनैव निर्देष्टुं शक्यो न तु शृङ्गग्राहिकया, तेद्वस्तुनोऽपि ह्यनुभवम्मारणद्वारेणैव निर्देशात् । तदर्थमारूप्यानभ्युपगमेऽपि प्रतिकर्म विक्रियाभेदात् क्षयोपशमानुभावतः परिच्छेदावक्लुप्तिः । ततोऽर्थग्रहणोगयसम्भवान्न तेंदभावेनाऽर्थाभावो वक्तव्यः । 10
___ स्वप्नादौ तु प्रमाणाभासम् । शुद्धहेतुजं तु प्रमाणमर्थाविनाभाव्येव । कस्यचिद् भ्रान्तत्वोपलम्भः सजातीयस्य तथाभावं गमयति । न ह्याग्दृशो वित्तिः सोपप्लवेति योगिनोऽपि । तद्
व्यभिचारेऽपि नार्थाभावः ।। 1028 स्थान्मतम् – प्रमाणनिबन्धनाः पदार्थव्यवस्थितयः, अर्थग्राहकं च प्रमाणं 15
सुप्त-मदमूञ्छितावस्थास्वर्थाश्तेऽपि संवेद्यमानमुपलभ्यते, ततो जाग्रदवस्थास्वपि कुत"स्ततोऽर्थसत्ता निश्चय इति । तन्न । यतः स्वप्नादौ त्विनि । यदिदं सुप्त-मदमूछितावस्थासु अर्थज्ञानमुपजायमानमुपलभ्यते न तत् प्रमाणम् , अपि तर्हि ? प्रमाणाभासं प्रमाणसदृशम् । ततः प्रमाणनिबन्धना: पदार्थव्यवस्थितय इत्यस्य न्यायस्य न व्यभिचारोऽस्ति, प्रमाणस्य स्वविषयाव्यभिचारात् , स्वमादिज्ञानस्य चाप्रामाण्यात् । 20 अप्रामाण्यं चास्य मिद्धाद्युपप्लुते आत्मनि ज्ञानकारणस्य क्षयोपशमस्य कालुष्यात् । १ न्यायमत ।। २ बौद्धेन ॥ ३ • “अथ किमिदानी सतो रूपं न निर्दिश्यते १ 'इदमस्य' इति निर्देष्टुं न शक्यत इति चेत् , अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न इति सुव्यवस्थिता भावाः' इति प्रमाणविनिश्चयस्य Tibetan translation भोटभाषानुवादानुसारेण पाठः प्रतीयते । भासर्वज्ञ विरचिते न्यायभूषणे तु "अथ किमिदानी सतो रूपं न निर्दिश्यते ? नेदमिदन्तया 25 शक्यं व्यपदेष्टुम् , अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति 'इदमस्य, इदं न इति सुव्यवस्थिता भावाः"-पृ० ४७ ॥ ४ सतोऽर्थकृतस्य विशेषस्य ॥ ५ नैयायिक ।। ६ स्वभावेन ॥ ७ ज्ञानादेः । ८ स्वभावविशेषः ॥ ९ तस्य ज्ञानगतविशेषस्य वस्तु आधारो ज्ञानम् , तस्य वस्तुनः ॥ १० अर्थग्रहणोपायाभावेन ।। ११ हेतोः ॥ १२ प्रमाणात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org