________________
६४
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे खलु प्रसारितलोचनाः पुमांसः पुरः पटं पश्यन्तः सन्तः परित्यक्तार्थग्रहणपरिणाम बोधमात्रमेवानुभवन्ति ।
ननु यद्यर्थग्रहणपरिणामं ज्ञानमभृत्तथापि कथमने नार्थो गृहीत इति । उच्यते-- 100 B तदेवार्थग्रह इति । तदेवार्थग्रहणपरिणामसंवेदनमेव ज्ञानेनार्थग्रहोऽर्थपरिच्छेदो भण्यते ।
इदमेव हि ज्ञानेनार्थग्रहणं यदर्थग्रहणपरिणामस्य ज्ञानस्य संवेदनम् , तच्चेदस्ति किम-5 न्यदजातमधिकमवशिष्यते येनार्थों न गृहीतः स्यात् ।।
स्यादेवम् - अर्थसारूप्यं ज्ञानस्य नेष्यतेऽर्थग्रहणपरिणामश्च सर्वत्राप्यविशिष्टस्ततः कथं प्रतिकर्म व्यवस्था स्यात् ? न, क्षयोपशमानुभावतः परिच्छेदावक्लप्तिरिति । ज्ञानावरणीयादिकर्मण उदीर्णाशस्य विपाकेनानुभवोऽनुदीशम्य च भस्मच्छन्नाग्निवदनुदय
श्व य: स क्षयेण युक्त उपशमः क्षयसाहित्यादुपशमोऽपि क्षय इति क्षयश्च स उपशम- 10 101A थेति वा क्षयोपशमो भण्यते । तस्यानुभावात् परिच्छेदस्यावक्लप्तिरवधारणम् । विज्ञान
मर्थाकारं नोत्पद्यत एव, किन्तु प्रत्यर्थ मित्रपरिणाममुत्पद्यते, क्षयोपशमसामाद्धि घटज्ञानं घटग्रहणपरिणाममेवोत्पद्यते पटज्ञानं च पटग्रहणपरिणाममेव, तथैव च स्वसंवेदनप्रत्यक्षेण संवेद्यते, इदमेव च घटग्रहणं यत् तद्ग्रहणपरिणामज्ञानसंवेदनम् । ततो घटग्रहणपरिणाम एव क्षयोपशमवशात् समुत्पन्ने ज्ञाने तथैव च संवेद्यमाने कुत: 15 पटग्रहणप्रसक्तिः, पटग्रहणपरिणामस्य ज्ञानस्यासंवेदनात् ?
एतदेवाह-प्रतिकर्मेति । कर्म कर्म प्रति प्रतिकर्म, प्रतिपरिच्छेद्यमित्यर्थः, विक्रियाया ज्ञानविकारस्य ग्रहणपरिणामस्य भेदाद् भिन्नत्वात् । अन्य एव हि पटपरिच्छेदिनो ज्ञानस्य परिणामोऽन्यश्च घटपरिच्छेदिनः । यद्ग्रहणपरिणामं च ज्ञानं वेद्यते तस्यैव ग्राहक व्यवस्थाप्यते । ततोऽर्थसारूप्याभावेऽपि क्षयोपशमवशात् प्रतिनियतस्यैवार्थस्य ग्राहकं 20 ज्ञानं भवति न सर्वस्येति । यदवोचाम
"क्षयोपशान्तिप्रभवप्रभावतो मतिर्भवन्ती नियतार्थवेदिनी । "निमित्तवेद्यः प्रतिकर्म भेदतः कथं नु विद्या द्विषयान्तराण्यपि ॥" [
101B
एतेन
" अस्त्यनुभवविशेषोऽर्थकृतो येत इयं प्रतीतिर्न सारूप्यादिति "चेत् " 25 १ मेदनिबन्धनप्रत्ययः कथम् १ ॥ २ ७' सप्तम्यन्तं पदम् ॥ ३ प्रतिकर्म विकियाभेदात् ॥ ४ स्वभावः ॥ ५ बुद्धिः ॥ ६ निमित्तं क्षयोपशमलक्षणम् , वेद्या बाह्याः पदार्थाः ॥ ७ जानीयात् मतिः ।। ८ अनुभवस्य बोधमात्रस्य ॥ ९ यतोऽर्थकृताद् विशेषात् ॥ १० घटज्ञानं मम समुत्पन्नमित्येवमादिका ॥ ११ विनिश्चयसूत्रम् ॥ .
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org