________________
99B
पुद्गलस्वरूपम् अर्थप्रहणोपायवर्णनं च । एतावास्तु विशेषः-ये यदातीन्द्रियस्वपर्यायम् अपहाय ऐन्द्रियकत्वपर्यायमुपयच्छन्ते ते तदा प्राकृतजनानामपि प्रत्यक्षा भवन्तीति । ____ मन इत्यादि । बहुवचनं प्राणा-पान-च्छाया-कर्मादिपग्ग्रिहार्थम् । प्रभित्त्य इति
प्रभेदाः । एषां मनआदीनां स्वस्वलिङ्गतः पूर्वपश्चितादात्मीयात्मीयादनुमानात् । पूर्वो99A दितसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोकाः ।
5 स्यादाकूतम्-परमाण्वादिरर्थ एवासिद्धस्तत: कस्य लक्षणं भेदाश्च प्रागुपवर्णिताः । तदसिद्धिश्च तद्ग्रहणोपायाभावात् । स हि यदि निराकारज्ञानग्राह्यो भवेत्तदा प्रतिकर्म व्यवस्था न स्यानिवन्धनाभावात् , बोधमात्रस्य सर्वत्राविशेषात् । अथ साकारग्राह्यस्तदानन्तरं तुल्यविषयं ज्ञानमपि ग्राह्यं स्याद् उभयत्रापि सादृश्याविशेषात् । न चानुपपद्यमानग्राहकोऽपि भावः सत्वेनोपगन्तुमुचितः, पष्ठभूतादेरपि तथाभावप्रसङ्गात् । 10
आह
स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः । स च संवेदनात् । तदेवार्थग्रहः । क्षयोपशमानुभावतः परिच्छेदावक्लृप्तिः, प्रतिकर्म विक्रियाभेदात् ।
"स्कन्धग्रहणपरिणामेन च स्कन्धावबोधस्वभावपर्यायेण च ज्ञानेन प्रत्यक्षप्रमाणेन तद्ग्रह- 15 स्तस्य स्कन्धस्य ग्रहः । चः समुच्चयार्थः । पूर्वमर्थः प्रपश्चितः, सम्प्रति तद्ग्राहकं प्रमाणमिति । स्कन्धग्राहकप्रमाणप्रसिद्धौ परमाणुग्राहकप्रमाणप्रसिद्धिः सिद्धेव, परमाणुव्यतिरेकेण स्कन्धस्यैवाभावादिति स्कन्धस्यैवोपादानं कृतम् ।
अयमभिसन्धिः-नैकान्तनिर्विशेषणेन ज्ञानेन नाप्यर्थसारूप्यकलङ्कातितेन, कि तहि ? अर्थग्रहणपरिणामविशेषणेनाऽर्थों गृह्यत इति तद्ग्रहणोपायाभावोऽसिद्धस्तथा 20
चार्थाभावोऽपि । 100 नन्वर्थग्रहणपरिणामो ज्ञानस्य न कोऽप्यनुभूयते, बोधमात्रस्यैव वेदनादिति ।
उच्यते-से चेति अर्थग्रहणपरिणामो ज्ञानस्य संवेदनात् स्वसंवेदनप्रत्यक्षेण सिद्धः । न १ मनस्तम.शब्दोद्योता. स्कन्धस्यैव प्रभित्तयः। पौद्गलिकत्वमेषां तु प्रसिद्धं स्वस्वलिङ्गतः। इति संग्रहश्लोकाः ॥ २ ज्ञानवादिनः ।। ३ परमाण्वादिः ॥ ४ प्रतिपदार्थम् ॥ ५ घट एव गृहीतो न 25 पटादिरिति व्यवस्था ॥ ६ साकारेण ज्ञानेन ।। ७ उत्तरेण ज्ञानेन पूर्व शानं विषयश्च ग्राह्यः स्यात् ॥ ८ प्रस: [-प्रथमसमासो बहुप्रीहिरित्यर्थः] । अनुपपद्यमानं ग्राहकं ज्ञानं यस्य ।। ९ आचार्यः ।। १० स्कन्धग्रहणपरिणामेन च ज्ञानेन तद्ग्रहः ।। ११ बोधमात्रेण ।। १२ स च संवेदनात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org