________________
प्राणापानादिस्वरूपम् ।
गतिमत्वमपि मुख्यमेवास्तु । वस्तूनां गतिमत्वस्य यथादर्शनमविरोधात् । तस्माद्गतिमचादपि छाया पौद्गलिकं द्रव्यम् ।
कर्मापि पौद्गलिक द्रव्यम् , आत्मनः पारतन्त्र्यनिमित्तत्वात् , निगडादिवत् । पारतन्त्र्यं चात्मनो हीनशरीगदिसम्बन्ध एव, दुःखहेतुत्वात् , कारागारवत् । देवादिशरीरमपि मरणदुःखहेतुर्भवत्येवेति न पक्षकदेशासिद्धः ।
एलेन यत् केनचिदुक्तम्
"तनुभुवनादि कार्य पुरुषगुणपूर्वकं विचित्रकार्यत्वाद् स्थादिवदिति । यथा हि स्थादिकर्ता भोक्तरभिप्रायं विचित्रमपेक्षमाणस्तथैव तंद्रचनां करोत्येवं शरीरादिकर्ता" [प्रशस्तपादभाष्यटीका व्योमवती पृ० ६३८] इति,
10 तत् प्रत्युक्तम् । यदि हि धर्माधर्मरूपं कर्म आत्मगुणः स्यात्तदा पारतव्यमात्मनो 97A न स्यात् , न खलु यो यस्य गुणः स तस्य पारतन्त्र्यनिमित्तम् , पृथिव्यादेवि रूपादयः । पारतन्त्र्यं चात्मन: कर्मनिमित्तमिति सकललोकप्रसिद्धमेव ।
अपि च, ज्ञानपूर्वकत्वेनापि हेतुश्चरितार्थः कथं न भवति ? तत् कथं पुरुषगुणौ धर्माधर्मों सिध्यत: ? न च शरीरोत्पत्ते: पूर्वमस्मदाद्यान्मनि बुद्धयादयो न सन्त्येवेति 15 श्रेयः । न खलु सा काचिदात्मनोऽवस्था समस्ति यस्यामान्मनो ज्ञान वियोगः, आत्मन एवाभावप्रसङ्गात् , उपयोगलक्षणत्वात्तस्य । तन्नात्मगुणः कर्म, किन्तु पौद्गलिकं द्रव्यमेव, आत्मनः पारतन्त्र्यहेतुत्वात् । क्रोधादिपरतन्त्र आत्मा भवति, न पुनः क्रोधा
दयः पौगलिकाः, ततो व्यभिचार: । न व्यभिचारः, आत्मपरिणामरूपाणां पारतन्त्र्य97B रूपत्वात् , मोहनीयकर्मभेदरूपाणां तु पौद्गलिकत्वाव्यभिचारात् ।
ननु यदि कर्म मृतं स्यात्तदा तेनात्मनो ज्ञानरूपस्याऽमूर्तस्यावरणं न स्यात् । न हि मूर्तममूर्तस्यावरणं भवितुमर्हति, ततोऽविद्यारूपमेव तदिति । तन्त्र, मृतेनापि मदिरादिनाऽमूर्तस्य ज्ञानादेरावरणदर्शनात् । कथमेवं शरीरादेन तदावरणत्वमिति चेत् , अविरुद्धत्वादिति बुमः । मूर्नवाविशेषेऽपि हि यदेव ज्ञानेन विरुद्धं तदेव तस्यावरणं १ भवति हि विशेषस्य सामान्यं हेतुः ॥ २ मरणरूपं दुःखम् , तस्य ॥ ३ कर्मापि पौद्रालिके(कमि ?). 25 त्यनुमानेन ।। ४ पुरुषस्य आत्मनो यो गुणः पुण्यपापादिः, तत्पूर्वकम् ॥ ५ '६' [षष्ठयन्तं विग्रहे पदम् ] ॥ ६ रथ ॥ ७ ईश्वराख्यः ॥ ८ अदृष्टस्य पौद्गलिकत्वसाधनेन ॥ ९ 'पुरुषगुणपूर्वकम्', कोऽर्थः १ पुरुषशानपूर्वकम् ।। १० हेतु: 'विचित्रकार्यत्वात्' इत्येवंरूपः ॥ ११ न तु पारतन्त्र्यस्य निमित्तानि ॥ १२ ज्ञानं प्रति ॥
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org