________________
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ऊर्ध्व नयनादुदानः । नाडीमुखेषु वितननाद् व्यानः । एते च हृदि गुदे नाभौ कण्ठदेशे सर्वशरीरे च यथाक्रममवतिष्ठन्ते, यदाह
"हृदि प्राणो गुदेऽपानः, समानो नाभिसंस्थितः ।
उदान: कण्ठदेशे च, व्यानः सर्वशरीरंग: ॥" [ ] इति ।
अन्ये त्याचक्षते-प्राणो नासाग्र-हनाभि-पादाङ्गुष्ठाग्रवृत्तिः । अपानः काटिका- 5 पृष्ठ-पायु-पाणिवृत्तिः। समानो हन्नाभि-सर्वसन्धिवृत्तिः । उदानो हृत्कण्ठ-तालु-भ्रूमध्यमूवृत्तिः । व्यानस्त्वम्वृत्तिरिति । एवं मनस्तमःशब्दोद्योतादय इवैते पौद्गलिका हेतुभिरुपपादनीयाः । तत्र प्राणादयो वायुरूपत्वात् स्पर्शवन्तः । स्पर्शवतां च पौद्ग
लिकत्वमयत्नसिद्धमेव । 95A छायापिपौगलिकी, रूप-स्पर्शवत्वात् , आलोकवत् । ने चास्या रूपादिमन्चम- 10
सिद्धम् । यतो यथैवालोके भासुरं रूपमुष्णः स्पर्शश्च लोकस्य प्रसिद्धस्तथा छायायामपि रूपं शीतः स्पर्शश्च । यदुक्तम्
"आतपः कटुको रूक्षश्छाया मधुरशीतला ।
कषायमधुरा ज्योत्स्ना सर्वव्याधिहरं तमः ॥" [ ] इति । 958 यथा क्षीरादिषु माधुर्यप्रतीतिनैवं छायायाम् , किन्तु क्षीरादिद्रव्यनिषेवणाद् यो 15
गुण-दोषौ दृष्टौ छायानिषेवणादपि तो ददृशाते इति तत्र स्पर्श-रसावुपचर्येते, न तु तो मुख्याविति चेत् । एवं तातप-ज्योत्स्नयोरपि रस-स्पी न मुख्यौ, किनवौपचारिकावित्यप्यस्तु । न चापाध्यमानप्रत्ययग्राह्यायाश्छायाया रूपादय औपचारिकाः कल्प
यितुमुचिताः, आलोक-ज्योत्स्नयोरपि तथैव प्रसङ्गात् । तद् रूप-स्पर्शवयाच्छाया 96A ज्योत्स्नादिवत् पौद्गलिकी, प्राणादिवदनात्मत्वे सति गतिमचाच्च पौद्गलिकी । गति- 20
मचं च 'शनैश्छाया गच्छति वेगेन गच्छति' इति लोकप्रतीतित: प्रसिद्धम् । स्यान्मतम्तापावारकच्छत्रादिगतं कर्म छायायामध्यारोप्य छाया गच्छतीति लोकाः प्रतियन्तीति गतिमत्वमसिद्धम् । तन्न, छायाया वस्तुत्वानभ्युपगमे छत्रादिकर्मण एवारोपयितुमशक्यत्वात् । सत्येव हि वृक्षादावश्वाधारूढः पुमानश्वकर्म तत्रारोपयति, नासति । ततस्तावन कर्माच्यारोपान्यथानुपपत्त्या छायाया वास्तवत्वं सिद्धम् , तथा च सति 25 १. तुला-न्यायकुमुदचन्द्र पृ० ६६८-६७० ॥ २ * तुला-प्रशस्तपादभाष्यटीका व्योमवती पृ० ४६ । न्यायकुमुदचन्द्र पृ० ६६९ । स्याद्वादरत्नाकरः पृ० ८५५ । सम्मतिटीका पृ० ६७२ । "आतपः कटुको रूक्षः छाया मधुरशीतला। त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः॥” इति राजनिघण्टौ ॥ ३परः ।। ४* तुला-न्यायकुमुदचन्द्रे पृ० ६७२ ॥ ५ गमनम् ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05