________________
५८
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
भावाच्च, संयोगिनो गगनस्यातीन्द्रियत्वात् पटस्येन्द्रियविषयत्वेऽपि तत्संयोगस्यै तद
योगात्, यदुक्तम्
90B
66
] इति ।
बाह्या अपि च प्राहु:- “न हि कदाचित् प्रत्यक्षा- प्रत्यक्षद्रव्यवृत्तिः संयोगः 5 प्रत्यक्षो भवति " [ ] इति । कुतः पुनर्बाह्येन्द्रियविषयत्वे आकाशगुणत्वं न भवतीति ? उच्यते - आकाशगुणत्वाभावेन व्याप्तत्वात् बाह्येन्द्रियविषयत्वस्येति सम्बन्धः । बाह्येन्द्रियविषयत्वं ह्याकाशगुणत्वाभावेन व्याप्तम् । यो हि वाह्येन्द्रियविषयः सोऽवश्यमाकाशगुणो न भवति । गन्धादीनामाकाशगुणत्वाभावो मूर्त्तगुणत्वाद् घटादीनां तु द्रव्यत्वात् सिद्ध इति न व्यभिचारः । तदयं बाह्येन्द्रियविषयत्वादिति हेतुर्विरुद्धव्याप्तोप- 10 90A लब्धिः, आकाशगुणत्वस्य प्रतिषेध्यस्य विरुद्धेनाकाशगुणत्वाभावेन बाह्येन्द्रियविषयत्वस्य
व्याप्तत्वात् ।
द्विष्ठसम्बन्धसंवित्तिर्नैकरूपप्रवेदनात् ।
द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥ [
"
93 A
अपि च, यद्याकाशगुणत्वं स्याच्छन्दस्य तदाऽऽकाशगुणत्वे च शब्दस्याम्युपगम्यमाने व्यापित्वं स्यात्, यस्माद् व्योम्न आकाशस्य निष्प्रदेशत्वाभिप्रदेशत्वेन भवद्भिरङ्गीकृतत्वात् । आकाशं हि व्यापकं निष्प्रदेश व परैरिष्टमतस्तस्य गुणो भवन् शब्दो 15 महच्चपरिमाणव व्यापी स्यात् । अन्यथा शब्दारुषिता नारूषित देश योनित्वेनाकाशस्य प्रदेशत्वप्रसङ्गः ।
ननु पटाकाशसंयोग आकाशगुणोऽपि न व्यापी, तत् कथं न व्यभिचारः ! तन्न | संयोगस्योभयगुणत्वेनाकाशगुणत्वैकान्ताभावात् । यो ह्याकाशस्यैवैकस्य व्यापकस्थ निष्प्रदेशस्य गुणः स एव व्यापकः प्रसञ्जयते । संयोगस्तु सप्रदेशाव्यापकस्यापि 20 गुणः ? ततः कथं तेन व्यभिचारः स्यात् ।
नन्वात्मनो विक्षुत्वेऽपि सुखादीनामव्यापित्वं दृष्टमिति । न । आत्मनो विभुत्वस्यानभ्युपगमात् । येषां तु त्रिभ्रुस्तेषां सुखादीनां व्यापित्व [ 91A 91B 92A ..92B... ]
भावित्वादिति वा सिद्धम्, शब्दसमवायिभूतस्य द्रव्यस्यैव कस्यचिदनभ्युपगमात् । 25
१ ख- पटयोः ॥ २ पटाकाशसंयोगस्य बाह्येन्द्रियविषयत्वायोगात् || ३ * तुला - " प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य " इति वैशेषिकसूत्र ४।२।२ । ४ गुणत्वे च व्यापित्वम् || ५ व्योम्रो निष्प्रदेशत्वात् । ६ व्यापक आकाशगुणत्वात् ॥ ७ घटादेः ॥ ८ इतः परं 91-92 इति पत्रद्वयं नोपलभ्यते ॥
Jain Education International 2010_05.
For Private & Personal Use Only
www.jainelibrary.org