________________
शब्दस्वरूपम् ।
५७
व्याप्तत्वात् । गुणत्वे च व्यापित्वम्, व्योम्नो निष्प्रदेशत्वात् । 5 परोक्षत्वादनुपलम्भो वा । न चामूर्त मूर्तगुणम् । स च पौद्गलिकः, विधि-स्वातन्त्र्याभ्यां बाह्येन्द्रियग्राह्यत्वात् । तच्छब्दो द्रव्यं पौगलिकम् ।
वाम्योगेति । काययोगात्तभाषायोग्य पुद्गलद्रव्यसाचिव्यजनितो जीवप्रदेशपरिणाम- 5 विशेषो वाग्योग:, तेन निसृष्टो वहिः क्षिप्तोऽनन्तानन्तपरमाणुव्रनयरूपः स्कन्धः शब्दः । यदि वाग्योगनिसृष्टः स्कन्धः शब्दः कथं तर्हि मेघादिशब्दानां शब्दत्वमिति ? अत्राह - सङ्घातभेदजो वेति, स्कन्धः शब्द इत्यनुवर्त्तते । यः केषाञ्चित् सङ्घातेन सङ्घट्टेन केषाञ्चिच्च भेदेन त्रिश्लेषेण भाषाद्रव्यपुद्गलस्कन्धो जायते सोऽपि शब्दः । तत्र सङ्घातजो मेघ करताला88 B दिजन्मा, भेदजो द्वैधीभवद्वंशदलादिजन्मा | शब्दजोऽपि शब्दः सङ्घातजन्मैव, शब्द- 10 परिणामपरिणत भाषाद्रव्यसम्बन्धेन शब्दत्वपरिणमितभाषाद्रव्यरूपत्वात् ।
चेतना-ऽचेतनजन्मनोः शब्दयोर्नैकं लक्षणमस्तीति पृथगुच्यते । तत्र सामान्येन शब्दो द्वेधा - भाषालक्षणो विपरीतश्च । भाषात्मको द्वेधा - अक्षरात्मकोऽनक्षरात्मकश्च । संस्कृतादिभेदभिन्न आर्य-म्लेच्छव्यवहारहेतुरक्षरात्मकः पञ्चन्द्रियाणाम्, अनक्षरात्मको द्वीन्द्रियादीनामपि । स एष द्वेधाऽपि प्रायोगिक एव । प्रयोग-विसानिमित्तभेदेनाऽभाषा - 15 त्मकोऽपि द्वेषा । प्रयोगनिमित्तश्च षड्ढा तवादिभेदात् । तत्र चर्मतननात् ततो मृदङ्गादि894 प्रभवः । वीणा त्रिसैरिकादितन्त्रीप्रभवो विततः । कांस्वतालादिजो घनः । वंशादिनिमित्त: शौषिरः । क्रकच काष्ठादिसङ्घर्षप्रसूतो सङ्घर्षः | वंशांशुकादिविपाटनजो वैश्लेषिक इति । विसानिमित्तो मेघादिप्रभवोऽनेकप्रकारः ।
शब्दस्वरूपमभिधाय परोपगतमाकाशगुणत्वं दूषयति- बह्येति । बाह्येन्द्रियं द्रव्येन्द्रियं 20 श्रोत्रं तस्य विषयत्वादिति हेतुः । गन्धादिवदिति दृष्टान्तः । नाकाशगुण इति साध्यम्, शब्द इति विशेष्यं सम्बध्यते । विवक्षावृत्तित्वान्न व्यभिचारः । पटाकाशसंसंयोगेन व्यभि - 89 B चार इति चेत न, तस्यो भयगुणत्वेनाकाशगुणस्यैकान्ताभावाद् बाह्येन्द्रियविषयत्वा
?
८
१ • अत्रेदं बोध्यम् - टीकादर्शेऽत्र पत्रद्वयं नास्ति, अतष्टीकायां कीदृशं मूलं स्वीकृतं कथं च व्याख्यातमिति न ज्ञायते । अतो मूलादर्शानुसारेण एतदन्तर्गतः पाठोऽत्र उपन्यस्त इति ध्येयम् ॥ २ वाग्योगनिसृष्टः 25 स्कन्धः शब्दः || ३ गृहीत || ४ साहाय्यम् || ५ भाषाद्रव्यं चासौ पुत्रलस्कन्वश्च भाषाद्रव्यरूपः पुअलकन्व इत्यर्थः ॥ ६ तुला - तत्त्वार्थराज वार्तिके ५ । २४, पृ० ४८५ ! ७ अपिशब्दात् पञ्चेन्द्रियाणामपि हुंकारादिः || ८ जीवव्यापार ॥ ९ विपरीतोऽपि ॥ १० त्रितन्त्रीका वीणा ।। १९ बाझेfreferrer गन्धादिवद नाकाशगुणः || १२ बाह्येन्द्रियग्राह्यो नभोगुणश्चायम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org