SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 87 B 88A स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे सम्प्रति तमोवादनुपसंहरति-तेत् तस्मात् पौगलिकं तमः, न भाभावो नाप्यालोकादर्शनं नाप्यन्यतः समारोपितो रूपविशेषः । इतिस्तमोविचारपरिसमाप्त्यवद्योतकः । तदेवं तमःस्वरूपं निरूप्य शब्दस्वरूपं निरूपयति वाग्योगनिसृष्टः स्कन्धः शब्दः संघातभेदजो वा । बाह्येन्द्रियविषयत्वाद् गन्धादिवद् नाकाशगुणः, आकाशगुणत्वाभावेन 5 ५६ बा न कल्पितमेतदेकजातीयादेव परमाणोरदृष्टोपग्रहाच्चतुर्धा कार्याणि जायन्त इति । कार्यैकसमधिगम्याः परमाणवो यथा कार्यमुन्नीयन्ते, न तद्विलक्षणाः, प्रमाणाभावादिति चेत्, एवं तर्हि तामसाः परमाणबोऽप्यस्पर्शवन्तः कथं तमोद्रव्यमारभेरन् ? स्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनाव्यभिचारोपलम्भात् । कार्यदर्शनात् तदनुगुणं कारणं कल्प्यते, न तु कारणवैगुण्येन दृष्टकार्यविपर्यासो युज्यत इति चेत्, न वयमन्धकारस्य प्रत्यर्थिनः किन्त्वारम्भकानुपपत्तेर्नीलिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति ब्रूमः । तर्हि भासामभाव एवायं प्रतीयेत, न तस्य नीलाकारेण प्रतिभासायोगात् । मध्यन्दिनेऽपि दूरगगनाभोगव्यापिनो नीलिम्नश्च प्रतीतेः । किञ्च गृह्यमाणे प्रतियोगिनि संयुक्तविशेषणतया तदन्यप्रतिषेधमुखेनाऽभावो गृह्यते, न स्वतन्त्रः । तमसि च गृह्यमाणे नान्यस्य ग्रहणमस्ति । न च प्रतिषेधमुखः प्रत्ययः । तस्मान्नाभावोऽयम् । न चालोकादर्शनमात्रमेवैतत्, बहिर्मुखतया तम इति छायेति च कृष्णाकारप्रतिभासनात् । तस्माद् रूपविशेषोऽयमत्यन्तं तेजोऽभावे सति सर्वतः समारोपितस्तम इति प्रतीयते । दिवा चोर्ध्वं नयन गोलकस्य नीलिमावभास इति वक्ष्यामः । यदा तु नियतदेशाधिकरणो भासामभावस्तदा दद्देशसमारोपिते नीलिम्नि छायेत्यवगमः । अत एव दीर्घा ह्रस्वा महती अल्पीयसी छायेत्यभिमानः, तद्देशव्यापिनो नीलिनः प्रतीतेः । अभावपक्षे च भावधर्माध्यारोपोऽपि दुरुपपादः । तदुक्तम् " न च भासामभावस्य तमस्त्वं वृद्धसम्मतम् । छायायाः कार्ण्यमित्येवं पुराणे भूगुणश्रुतेः ॥१॥ दूरासन्न प्रदेशादि महदल्पचलाचला । देहानुवर्तिनी छाया न वस्तुत्वाद्विना भवेत् ||२||" इति । दुरुपपादश्च कचिच्छायायां कृष्णसर्पभ्रमः । चलतिप्रत्ययोऽपि गच्छत्यावारकद्रव्ये यत्र यत्र तेजसोऽभावस्तत्र तत्र रूपोपलब्धिकृतः । एवं परत्वादयोऽप्यन्यथासिद्धाः । तत्र चालोका भावव्यञ्जनीयरूपविशेषे तमसि आलोकानपेक्षस्यैव चक्षुषः सामर्थ्यम् तद्भावभावित्वात् यथाऽऽलोकाभाव एव त्वन्मते । नन्वेवं तर्हि सूत्रविरोधः " द्रव्यगुणकर्मनिष्पत्तिवैधर्म्याद् भाऽभावस्तमः " [वैशेषिकसूत्रे ५/२/१९] इति, न विरोधः, भाऽभावे सति तमसः प्रतीतेः 'भाऽभावस्तमः' इत्युक्तम्" इति श्रीधर भट्टविरचितायां प्रशस्तपादभाष्य टीकायां न्यायकन्दल्याम् पृ० २१-२६ ॥ " , १तत् पौगलिकं तम इति ॥ २* “यः पुनर्निशि नीलिमेवावलोक्यते नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथं पुनर्गुणो न कस्यचित् ? सत्यम् गुण एवायमप्रसिद्धः । ननु प्रतीतिबलेन सिद्ध एव । सिद्धयेद् यदि प्रसिद्धिरेव सिध्येत् सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम्, न, आलोकोपकारानपेक्षस्य चक्षुषोऽप्रकाशकत्वात् । तेन अप्रतीतावेषायं प्रतीतिभ्रमो मन्दानाम् । अत एव दिवाऽनुपलम्भः अन्यथा सौरीभिः भामिरनुगृहीतं चक्षुः स्फुय्तरं व्योम्नि नीलिमानं प्रकाशयेत् ” इति शालिकनाथविरचितायां प्रकरणपञ्चिकायाम् पृ० १४३ । “आलोकज्ञानाभाव इति प्राभाकरेकदेशिनः" इति सर्वदर्शनसंग्रहे || Jain Education International 2010_05 For Private & Personal Use Only 10 15 20 25 30 www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy