________________
तमःस्वरूपम् । लोकप्रतीतिबाधस्तूभयत्रापि तुल्यः । यथैव हि मध्याह्वेऽतितीव्रालोके बहिर्गन्तुमसर्था वयमिति लौकिकी प्रतीतिरस्ति तथा बहलान्धकारायां क्षपायां बहिर्गन्तुम86A समर्था क्यमित्यपि प्रतीतिरस्ति । तन्त्र ज्ञानानुत्पत्तिमात्रं तमः, आलोकस्याप्यमावप्रसङ्गात् ।
ननु न तमः पुद्गलद्रव्यम् , कि तर्हि ? रूपविशेषोऽयमिति। अत्राह-ने चानाश्रय 5 आश्रयरहितो गुणः सम्भवति । रूपं तावद् गुणः, गुणश्च द्रव्याश्रयः, न च तमसि प्रतिभासमाने तदाधारभूतं द्रव्यं किमपि प्रतिभासते । न च द्रव्याप्रतिभासेऽपि स्वतन्त्रो गुणप्रतिभासः सम्भवति, तत् कथं रूपविशेषरूपं तमः स्यात् ।
__ स्यान्मतम्- न तमःसंविदा पुगेऽवस्थित एक रूपविशेषो गृह्यते, कि तर्हि ?
अन्यत्रोपलब्धो नीलिमा तत्रारोप्यते । अत एव दीर्घ हवं महदल्पं तम इत्यपि प्रति- 10 86B भासो नासङ्गतः, तावद्देशव्यापिनो नीलिम्नः समारोपादिति । तन्न । यतो नापि
आरोपकारी प्रत्यय आरोपप्रत्ययोऽस्खलितो भवति । स्खलित एव भवतीत्यर्थः । यदि तमःप्रत्ययोऽन्यत्रोपलब्धस्य नीलिम्नः समारोपकारी स्यात्तदा नात्र नीलिमा, कि तहि ? अन्यत: समानीय समारोपित इत्येवं स्खलवृत्तिः स्यात् । न खलु माणवके वहिप्रत्ययोऽस्खलवृत्तिः । ततो नास्यान्यतः समारोपितो रूपविशेषो विषयः । किन्तु 15
पारमार्थिकस्तमःस्कन्धः । न केवलं नारोपप्रत्ययोऽस्खलितः, तथा सर्वभावी वा नापीति 87A सम्बध्यते । सर्वेषां भवतीत्येवं शीलः सर्वभावी । यद्ययं तमःप्रत्ययः समारोपितरूप
विशेषविषयः स्यात्तदा सर्वेषामविशेषण न स्यात् । न खलु माणवके वह्निपत्ययः सर्वेषामगृहीतसङ्कतानामपि पुरुषाणामुपजायते । एतेन यदुक्तम्
"तस्माद्रूपविशेषोऽयमत्यन्तं तेजोऽमावे सति सर्वतः समारोपितस्तम इति 20 प्रतीयते" [प्रशस्तपादमाष्पटीका न्यायकन्दली पृ० २४ ] इति, तत् प्रतिव्यूढम् । ..
१ न चानाभयो गुणः ॥ २ स्वभावम् ॥ ३ नाप्यारोपप्रत्ययोऽस्खलितः ॥ ४ * "अत्र कश्चिदाह-यदि तमो द्रव्यं रूपद्रव्यस्य स्पर्शाव्यभिचारात् स्पर्शवद्रव्यस्य महत: प्रतिघातधर्मत्वात् तमसि संबरतः प्रतिबन्धः स्यात् , महान्धकारे च भूगोलकस्येव तदवयव- 25 भृतानि खण्डावयविद्रव्याणि प्रतीयेरनिति तदयुक्तम् , यथा प्रदीपानिर्गतैरवयवैरष्टवशादनुभूतस्पर्शमनिविटावयवमप्रतीयमानखण्डावयविद्रव्यप्रविभागमप्रतिघाति प्रभामण्डलमारभ्यते तथा तमःपरमाणुमिरपि तमोद्रव्यम् । तस्मादन्यथा समाधीयते-तमःपरमाणवः स्पर्शवन्तस्तद्रहिता वा ? न तावत् स्पर्शवन्तः, स्पर्शवतस्तत्कार्यस्य कचिदनुपलम्भात् । अदृष्टव्यापाराभावात् स्पर्शवद्र्व्यानारम्भका इति चेत् , रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद् रूपवत् कार्य नारभन्त इति किं न कल्प्येत ? किं 30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org