________________
५४
स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ननु चक्षुरिन्द्रियं सर्वत्र विषयं परिच्छिन्ददालोकसापेक्षमेवाद्राक्षम् , ततस्तमःपरिच्छेदे कमालोकमपेक्षते इति । तम । आलोकसद्भावव्यअनीयेष्वेव विषयेषु चक्षुष आलोकसापेक्षत्वात् । द्विधा हि प्रवृत्तिश्चक्षुरिन्द्रियस्य-आलोकसद्भावापेक्षा आलोकनिरपेक्षा च ।
घटादिषु मनुष्यादिचक्षुषामालोकसद्भावापेक्षा, तेष्वेव मार्जागदिचक्षुषामालोकनिरपेक्षेति । 84A तत्वेदमपि तम आलोकाभावज्ञेयम् , आलोकविपक्षत्वात् , आलोकसद्भावे तमस 5
एवासचादित्यालोकानपेक्षेणापि चक्षुषा परिच्छिद्यते । अपि चालोकाभावस्तावत् कथमप्यालोकनिरपेक्षेणापि चक्षुषा गृह्यते तथा तमोऽप्यस्तु । न चाभावो न प्रत्यक्षः भवन्मते तस्य प्रत्यक्षत्वाभ्युपगमात् ।
यदि तमश्चाक्षुषं कथं तर्हि निमीलितलोचनस्यापि तमोदर्शनमिति ? यदि चाक्षुषं तहीन्द्रियान्तरैरग्राह्यमस्तु, मनोग्राद्यत्वे तु को दोषः १ चाक्षुषा अपि हि घटादयो 10 84B मनसा विकल्प्यमाना दृश्यन्ते । एतावत्त स्याद् वक्तव्यम्-विकल्पोत्पादस्य किं निबन्धन
मिति । तत्र सत्यतमोनुऽभवाहित: संस्कारो निबन्धनमिति बमः । तस्मादल्प-कृष्ण-महत्त्वप्रतिभासाऽयोगाद्विषिग्रहाच्च न भाऽभावरूपं तम इति ।
ननु न भाऽभावरूपं तमः, अभावस्यैव कस्यचिदभावात् , किन्त्वालोकादेर्शनमेव । यदालोकविषयं ज्ञानं नोत्पद्यते तदेव तम इति व्यवहियत इत्यत आह-अंत एवेति, 15
अल्प-कृष्ण-महत्वप्रतिभासायोगाद्विधिग्रहाच्च नालोकादर्शनं नालोकज्ञानानुत्पत्तिरूपं तमः । 85A तमसो ह्यल्प-कृष्ण-महचादयो धर्माः प्रतीयन्ते, 'जलमेदुराम्बुधरसोदरं पुरस्तमः पश्यामि'
इत्येवं च विधिरूपेण तमोज्ञानम् , तदेतदुभयमप्यालोकज्ञानानुत्पत्तिरूपत्वे तमसः कथं स्यात् १ तदालोकादर्शनरूपमपि तमो न भवति ।
स्थादेवम्-सालोकेऽपि गर्भगृहप्रदेशादौ वहिर्देशादागतस्य प्रतिपत्तरसत्यपि 20 तमसि वस्तुज्ञानानुत्पत्तौ तमःप्रतिभामोऽस्ति, ततो ज्ञानानुत्पत्तिमात्रमेव तम इति ।
तन्न । यतः प्रचुरतरालोकोपहतलोचनः पुमांस्तत्रावस्थितान् अर्थान् यथावदवगन्तुमसमर्थों 85B जलरूपतया मरीचिकाचक्रमिवालोकमेव तमोरूपतया प्रतिपद्यते । न च मिथ्यातम:
प्रतिभासेनाऽमिथ्यातमःप्रतिमासस्य साम्यमापादयितुमुचितम् , सत्यजलादिप्रतिभासस्याऽप्यसत्यजलादिप्रतिभासेन साम्यापादनप्रसङ्गात् ।
25 किञ्च, ज्ञानानुत्पत्तिव्यतिरेकेणापरस्य तमसोऽनाश्रयणे विशदज्ञानोत्पतिव्यतिरेकेणान्यस्यालोकस्याप्यम्युपगमो मा भूत् , असत्यपि चालोके बहलान्धकारनिशीथिनीसमये नक्तश्नराणामअनादिसंस्कृतचक्षुषां च सप्रकाशं सकलवस्तुप्रतिभासदर्शनात् । १ आचार्यः ।। २ ऽज्ञानमेव ॥ * दृश्यतां पृ० ५६ टि० २ ॥ ३ अत एव नालोकादर्शनम् ॥ ४ * दृश्यतां न्यायकुमुदचन्द्र पृ० ६६६, ६७०, ६७१ ॥
30
www.jainelibrary.org
Jain Education International 2010_05
For Private & Personal Use Only