________________
तमःस्वरूपम् ।
ननु रजःकणानामनुपलम्भेऽपि स्पर्शस्यासच्चं न भवति, तत्कार्याणां स्पर्शत्रतासुपलम्भेन तेत्रापि स्पर्शसत्तानिश्चयात् । नैवं तमसः स्पर्शवत् कार्यमुपलभ्यते । यो हि सूक्ष्मधस्तम एव नेच्छेत् स कथं स्पर्शवत् तत्कार्यमिच्छेदिति । तन । आलोकपरमाणूनामेव तमः कार्यरूपत्वात् । क्षपासु कृतक्रीडास्तमः परमाणव एवोदयावनीधर शिरसो विकसत्कुसुम्भकुसुमशेखरशोभां भजति भानुमति प्रभापरमाणुपरिणामलक्ष्मीं श्रयन्त इति 5 हि नः सिद्धान्तः । आलोकश्व स्पर्शवानिति सर्वसम्मतमेवेति स्पर्शवत्कार्योपलम्भादपि रजसामिव तमसां स्पर्शसत्तानिश्चयोऽस्ति । न च स्पर्शत्रता स्पर्शवत् कार्य जन्यत ऐव, 824 नायनरश्म्यादिभिर्व्यभिचारात् । तत् साक्षादनुपलब्धोऽपि रजः स्त्रिव तमसि स्पर्शोऽस्ति । स चायं सन्नप्यनुद्भृतत्वेन सूर्याचन्द्रमः - प्रदीपप्रमाणामिव प्रतिघातहेतुर्न भवति । ततो न प्रतिघाताभावेनास्पर्शवत्त्वं नापि स्पर्शाभावेनापौगलिकत्वम् ।
81 B
५३
स्यान्मति:- यदि स्पर्शवत्पुद्गलप्रचयरूपं तमस्तदा महान्धकारे भूगोल कस्येव तदवयवभूतानि खण्डावयविद्रव्याणि किमिति नोपलभ्यन्त इत्यत आह-खण्डादर्शनं चेति । 82 B ' विशेषातिदिष्टः प्रकृतं न बाधते' इति न्यायात् परिणामविशेषात् प्रदीपप्रभावदित्येतदत्रापि योज्यते । न केवलं परिणामविशेषात् प्रदीप प्रभावद प्रतिघातो रजोवत् स्पर्शानुपलम्भस्तथाख ण्डादर्शनं खण्डावयविद्रव्याणामदर्शनं चेति । यथा हि प्रदीपप्रभा परमाणुभिः 15 परिणामविशेषवशादनुद्धृतस्पर्शमनिव(वि)डावयवमप्रतीयमानखण्डावय विद्रव्य विभागमप्रतिघाति प्रभामण्डलमुपजन्यते तथा परिणामविशेषात् तमः परमाणुभिरपि ।
}
तदेवं पौगलिकत्ववक्षोदितं दूषणमपाकृत्य ये भाडमात्ररूपं तमो व्याचक्षते तन्म834 तमपाकरोति । नै च भायाः प्रकाशस्याभावोऽभावरूपं भवति । तम इति प्रकृतम् । अल्प-कृष्ण महत्त्वप्रतिभासायोगात् । अल्पं तमः कृष्णं तमो महच्च तम इति प्रतिभास: पुरुषाणामस्ति । स एष तमसो माभावरूपत्वे कथं स्यात् । न खल्वभावस्य नीरूपस्यालपमहच्च-कृष्णादयो धर्माः सम्भवन्ति, अभावत्वस्यैवाभावप्रसङ्गात् । न केवलमल्पादिप्रतिभासायोगात्तथा विधिग्रहाच्चेति । विधिना विधिरूपेण भावरूपेणेत्यर्थः । न भाभावरूपं 83 B तम इति योगः | 'बहलतमालपल्लव कुवलयदलालिकुलश्यामलं तमः पुरः पश्यामि' इत्येवं विधिना प्रत्ययः प्रादुरस्ति, न पुनः 'भाभावं पुरः पश्यामि' इत्येवं निषेधरूपेण, ततः कथं नाम तमो भाभावो भवेत् ?
१ रजसि । २ नैवमित्यपि पर एव ब्रूते ॥ ३ सुगतः ॥ ४ तमः परमाणव एव आलोकपरमाणुतया परिणमन्त इत्यर्थः ॥ ५ नावश्यं कारणानि कार्यवन्ति भवन्ति ॥ ६ न च भाऽभावः ॥
Jain Education International 2010_05
For Private & Personal Use Only
10
20
25
www.jainelibrary.org