________________
५२
स्वोपज्ञटीकासहिते वध्यालङ्कारे द्वितीये प्रकाशे
विधिमुखस्तु प्रत्ययोsसिद्ध: । ने हि नञोऽप्रयोग इत्येव विधिः, प्रलयविनाशा वसानादिषु व्यभिचारात् । नञर्थान्तर्भावेन वाक्यार्थे पदप्रयोग इति तु समं समाधानमन्यत्राभिनिवेशात् " [ प्रशस्त० किरणावली पृ० १३ ] इति,
80 9
"
तदपाक्रियत, प्रलयादिप्रत्ययानां नञोऽप्रयोगेऽपि निषेधरूपत्वस्य युक्तत्वात्, क्षय प्रलयविनाशा ऽवसानध्वनीनामेअसा नञ इवाभाववाचित्वात् । नैवं तमोन्धकारादीन् शब्दानभाव - 5 वचनान् शाब्दिकाः सङ्गिरन्ते । ततो न प्रयोगाभावाविशेषेऽप्यन्धकारप्रत्ययो विधिरूप एव, प्रलयादिप्रत्ययस्तु निषेधरूप:, इति स्थितं तमसः पौगलिकत्वम् ।
?
ननु महतः पुद्गलस्कन्धस्य स्पर्शवच्वेन प्रतिघातधर्मकत्वात्तमसि सञ्चरतः पुरुषस्य 804 प्रतिबन्धः स्यात् न चैवम्, अतोन स्पर्शवत्तमः, तथा चापौगलिकमिति । उच्यतेस्पर्शवत्त्वेऽपीति । प्रदीपप्रभावदिति साधर्म्यम् । अप्रतिघातस्तमसः प्रतिघातकारित्वाभावः । 10 यथा स्पर्शवत्थामपि प्रदीपप्रभापटल्यामटतामसुमतां प्रतिबन्धो न भवति । तथा स्पर्शवत्यपि तमसि सञ्चरतां तत्परिणामविशेषादप्रतिबन्धः । प्रदीप नयनादिप्रमाणामनुद्भूतस्पर्शत्वेन प्रतिघातकत्वाभावोऽस्माकं मैतेन सिद्ध इति चेत्, एवं तर्हि तमःस्कन्धेऽपि प्रतिघातकत्वाभावोऽनुद्धृतस्पर्शत्वादेवास्तु ।
ननु प्रभाजातीये क्वचिदपि स्पर्श उपलब्ध इत्यन्यत्र तस्यानुदभृतत्वं कल्पयितु- 15 मुचितम् । तमोजातीये तु क्वचिदपि स्पर्शो नोपलब्ध इति तस्य कथमनुद्भूतत्वं कल्पयितुं शक्यम् ? प्रत्युत तस्य नास्तित्वमेव कल्पयितुं युक्तम् ।
अत्राह - 'रेजोवदिति । जालिकारन्ध्रप्रविष्टभास्करप्रभादण्डान्तदृश्याः पांशुकणा रजः । तस्येव तमसः सन्नपि स्पर्शः क्वचिदपि न वेद्यते । परिणामविशेषादिति हेतुस्त्रावि सम्बध्यते । न केवलमप्रतिघातः, स्पर्शानुपलम्भोऽपीति अपिशब्दार्थः । यथा रजःकणानां 20 कचिदपि स्पर्शो नोपलभ्यतेऽथ च नास्तीति न कल्प्यते तथा यद्यपि तमसः क्वचि - 81A दपि स्पर्शो नोपलभ्यते तथापि नास्तीति न कल्प्यते । ततश्च सतः स्पर्शस्यानुद्भूतवं कल्पयितुं दीपादिप्रभाणामिवोचितमेवेत्यनुद्धृतस्पर्शत्वेनाप्रतिघातः ।
१ स एव भावयति || २ प्रलय- विनाशादिषु शब्देषु नञोऽप्रयोगेऽपि न विधिमुखप्रत्ययः, किन्तु निषेधमुखः ॥ ३ अथैवं भणिष्यन्ति ' सर्ववस्तूनामभाव:' इति भणितव्ये प्रलयादीनां प्रयोग इति नञर्थता युक्ता 25 तर्हि ' भाऽभावः' इति वक्तव्ये तम इत्यादीनां प्रयोग इति समता ॥ ४ ज्ञानानाम् || ५ मुख्यवृत्त्या || ६ स्पर्शवत्वेऽपि परिणाम विशेषात् प्रदीपप्रभावदप्रतिघातः ॥ * दृश्यतां पृ० ५५ टि० ४ ॥ ७ * अत्र मतेन इति पदं किञ्चिद् घृष्टमिव भाति ॥ ८ काका ।। ९ अभिप्रभादौ || १० स्पर्शस्य ॥ ११ रजोवत् स्पर्शानुपलम्भोऽपि ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org