________________
तम.स्वरूपम् । तेजेसेति । तेजसैव सूर्या-चन्द्रमा प्रदीप-रत्नाद्यालोकेनाऽपवर्त्यः स्वरूपात् प्रच्याव्यः A परिणामान्तरमापाध: स्कन्धो यः स तम इत्युच्यते । तत्र तेजसापवर्त्य इत्येतावदुक्ते चन्द्रज्योत्स्ना-जलादिभिर्व्यभिचारः स्यादित्यवधारणम् , तेषामन्येनाप्यपवर्त्यत्वात् ।
पौद्गलिकत्वं स्विति तमसः पौगलिकत्वं पुनर्विधि-स्वातन्त्र्याभ्यां चक्षुद्यत्वात् । अभावानुल्लेखो विधिः । अपरायत्तत्वं स्वातन्त्र्यम् । विधिपदेनाभावस्य स्वातन्त्र्यपदेन 5 गुणादीनां चक्षुःपदेन चात्मादेनिरासः ।
अयं च प्रमाणार्थः - तमः पौगलिकम् , विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वात् , पटादिवदिति । विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वं रूपवश्वेन व्याप्तम् । रूपबच्चावश्यं पौद्गलिकमेव । न चाश्रयासिद्धिः, 'तमः'शब्दवाच्यस्य कस्यचिद्धर्मिण उभयसिद्धत्वात् । न च हेतुरसिद्धविशेषणोऽसिद्धभेदः, अन्धकारोऽयमिति प्रत्यये घटाभावोऽयमिति 10 प्रत्ययवदभावोल्लेखस्याननुभवात् । न हि निशि मषीनिचयाकारमन्धकारमवधारयन्नमुग्धधीरभावाभासमात्मनो ज्ञानमनुभवति ।
ननु 'आलोकाभावोऽयम्' इति प्रत्ययस्तमोविषय इत्युभयसिद्धम् , न चात्राभावो. लेखाननुभवोऽस्ति, तत् कथं नासिद्धविशेषणो हेतुरिति ? तस्किमेतावता तमस एकान्तेनाऽभावरूपत्वं सिद्धयेत् ? एवं ह्यस्थालोकाभाववत्वं स्यान्मालोकाभावरूपत्वम् । न हि घटः 15 'पटाभावोऽयम्' इति प्रत्ययविषयन्वेन पटाभावरूपो भवति, किन्तु पटाभाववानेव । कथं तर्हि आलोकाभावोऽयमन्धकार इति प्रतीतिः समानाधिकरणा? आलोकाभावा-ऽन्धकारयोः कथञ्चित्तादात्म्यादिति बमः, भावांशा-ऽभावांशयोः सर्वत्र कथञ्चिदभेदात् । अत एव पटाभाववानयं पटामावरूपो वेति द्वयमपि भेदा-ऽभेदार्पणया घटे न विरुध्यते ।
अयमर्थः- तमो द्रव्यं भावा-ऽभावांशरूपम् । तत्र य एष इदं तम इति प्रत्ययो 20 भावरूपावभासी स भावांश विषयः, अमावांशरूपानुल्लेखात् । य एष पुनरालोकाभावोऽयमिति प्रत्ययोऽभावरूपावभासी सोऽभावांशविषयः, भावांशरूपानुल्लेखात् । तत आलोकामावप्रत्ययस्य तमोविषयत्वेऽपि विधिरूपप्रत्ययविषयत्वं तमसो न विरुध्यत इति । ____एतेन यदाह
भीमहावीर जन आराधना केन्द्र
कोवा (गांधीनगर) पि300000 १ तेजसवापवयः स्कन्धस्तमः || २ चन्द्रज्योत्स्ना हि सूर्यतेजसाऽपवर्त्यते घनादिमिश्च । एवं जलाद्यपि ॥ 2. ३ पौगलिकत्वं तु विधिस्वातन्याभ्यां चक्षुर्मानत्वात् ॥ ४ आकाशादीनाम् ॥ ५ किं तर्हि १ अभावोल्लेखानुभवोऽस्त्येव ।। ६ आचार्यः ।। ७ उदयनः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org