________________
५०
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ज्ञानमालयज्ञानलक्षणमुपादानं प्रत्ययांश्च चक्षुरादीनपेक्षते तथा विकल्पोऽपि । प्रेत्ययश्चेति यः प्रत्ययो विकल्पेनापेक्ष्यते स चास्मन्मते मन इत्यभिधीयते ।
ननु प्रत्ययो मन एव भवतीति कथम् , अदृष्टादेरपि सम्भवादित्यत आह778 अन्यथेति, यदि प्रत्ययो मनो नेष्यते, किं तर्हि ? अन्यशङ्कयाऽऽत्मा प्रलोभ्यते, तदा ऽतिप्रसङ्गः स्यात् , अन्यत्राप्यनुमानेऽन्यशङ्कया प्रस्तुतविघातस्य कतुं शक्यत्वात् । 5
इदमुक्तं भवति-सत्स्वपि रूपा-ऽऽलोक-मनस्कारेषु निमीलितलोचनाद्यवस्थासु विज्ञानस्याभावात् पुनश्चोन्मीलितलोचनाद्यवस्थासु मावाद् विज्ञानकार्य कारणान्तरसापेक्षमित्येवं भवद्भिरपीन्द्रियाणामतीन्द्रियाणामनुमानमन्वज्ञायि, यद् भृत्तिः
" इन्द्रियादीनां तु विज्ञानकार्यस्य कादाचित्कत्वात् सापेक्षत्वसिद्धया प्रसिद्धिरुच्यते 'किमप्यस्य कारणमस्ति' इति" [
10 ततश्चेन्द्रियानुमानेऽपि शक्यं वक्तुं यत् तत् कारणान्तरं तददृष्टादि भविष्यति । ततश्चे778 न्द्रियसत्ताऽपि सन्दिग्धा स्यात् प्रत्यक्षानुमानयोरघटनादित्येवमतिप्रसङ्गः ।
स्यान्मतम्-इन्द्रियानुमाने कारणान्तरमदृष्टमयुक्तम् , तस्य सदा सन्निहितत्वेन निमीलितलोचनाद्यवस्थास्वपि ज्ञानोत्पादप्रसङ्गादिति । तदेतन्मनोऽनुमानेऽपि समम् । शक्यं ह्यत्रापि वक्तुम्-नादृष्टं विकल्पस्य प्रत्ययः, सदा सन्निहितत्वेन सुप्त-मूठिता- 15 वस्थायामपि तदुत्पाद प्रसङ्गात् । इतिर्मनोऽवसरविसर्जनं व्याहरति । उक्तं मनास्वरूपम् ।
यथानिर्देशं तमःस्वरूपमुच्यतेतेजसैवाऽपवर्त्यः स्कन्धस्तमः । पौद्गलिकत्वं तु विधि-स्वातन्त्र्याभ्यां चक्षुर्ग्राह्यत्वात् । स्पर्शवत्त्वेऽपि परिणामविशेषात् प्रदीपप्रभावदप्रतिघातः । रजोवत् स्पर्शानुपलम्भोऽपि । खण्डादर्शनं च । न 20 च भाऽभावः, अल्प-कृष्ण-महत्त्वप्रतिभासायोगाद् विधिग्रहाच्च । अत एव नालोकादर्शनम् । न चानाश्रयो गुणः । नाप्यारोपप्रत्ययोऽस्खलितः सर्वभावी वा । तत् पौद्गलिकं तम इति । १ प्रत्ययश्च मनः ।। २ अन्यथातिप्रसङ्ग इति ॥ ३ अदृष्टादिशङ्कया ।। ४ धर्मात्तरवार्तिकम् ॥ ५ विज्ञानस्य कार्यस्य ।। ६ शप्तिः ॥ ७ केनोलेखेन ॥ ८ ज्ञानस्य ॥ ९ प्रस्तुतविघातस्य कर्तुं शक्य- 25 स्वादित्येवरूपः ।। १० - ‘परिणामभेदात् ' इति मूलादर्श पाठः॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org