SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मनःस्वरूपम् । ४९ 66 75 B न खलु विजातीयमारम्भकम्, ननु मनःस्कन्धस्य परमाणुभ्य उत्पादो न घटते, आरम्भकभावा घटनात् । विजातीयानामनारम्भकत्वम् " [ प्रशस्त० किरणावली पृ० ४१] इति वचनात् । सजातीयं च मनसो मन एव स्यात् । किन्त्वेवं मनः प्रादुर्भावे कारणभूताने के मनःप्रसङ्गः, " द्रव्याणि द्रव्यान्तरमारभन्ते " [ वैशेषिकसूत्रे १|१|८ ] इति वचनात् । न चैकशरीरेऽनेकमनः सद्भावोऽस्ति, प्रतिशरीरमेकत्वेन 5 स्य व्यवस्थानात्, अन्यथा युगपदेव ज्ञानोत्पत्तिः स्यादिति । तन्न, अवान्तरजातिभेदेऽपि सामान्य वृद्गलत्वैकजात्यपेक्षया सजातीयानां परमाणुनामारम्भकत्वघटनात् । अवान्तरजातिभेदापेक्षयापि विजातीयत्वाभ्युपगमे तन्तुपटयोरप्यारभ्यारम्भकभावाभावप्रसङ्गात्, परस्परासम्भव्यवान्तरजात्याधारतया तयोरपि 76A विजातीयत्वात् । ततो यथा पार्थिवत्वसामान्यापेक्षया सजातीयत्वेन तन्तवः पटारम्भका भवन्ति तथा पुद्गलत्वसामान्यापेक्षया सजातीयत्वेन परमाणवो मनस इति न दोषः । अथवा मनोवर्गणारूपाः पुद्गला ये मनस्त्वेन परिणमन्ते ते मृत्पिण्ड इव घटस्य मनसः सजातीयाः सन्त्येव, किं कुटिलभणितिभिः ? मनसः प्रतिशरीर मेकत्वं पुनरदृष्टनिबन्धनम् विचित्रा हि कारणशक्तयः, अन्यथेन्द्रियाणामपि पञ्चत्त्रव्याघातप्रसङ्ग इति । 6 " ननु मन एवासिद्धमतः कस्य पौगलिकत्वं स्यात् । इत्येवं वादिनं प्रति मन:साधकमनुमानमुच्यते विकल्प उपादान - प्रत्ययापेक्षः, प्रतिनियतविषयज्ञानत्वात्, चाक्षुषादिवत् प्रत्ययश्च मनः । अन्यथा ऽतिप्रसङ्ग इति । Jain Education International 2010 05 , विकल्प इति विकल्पज्ञानं धर्मि, उपादान-प्रत्ययापेक्षः, उपादानं परिणामि- 20 76 B कारणम् प्रत्ययाः सहकारिणः, तदपेक्षग्त अन्य इति साध्यम् । प्रेतिनियतविषयज्ञानत्वदिति " हेतुः । चाक्षुषादिवदिति निदर्शनम् । आदिशब्दाद् रासनादिग्रहः । यथा चक्षुरादि १ कारणभावा ॥ २ " तस्मात् सजातीयानामेवारम्भकत्वं न विजातीयानामिति स्थितम् ” इति प्रशस्तपादभाष्यस्य उदयनाचार्यविरचितायां किरणावल्यां टीकायाम् पृ० ४१ || ३ मनसस्तावत् पुद्गला एवारम्भकाः । ते सजातीयस्य सत आरम्भकत्वाद्धेतोः प्रत्येकं मनोरूपा एष्टव्याः, अतोऽनेकत्वप्रसङ्गः ॥ ४ अनेकद्रव्यं द्रव्यमिति ॥ ५ मनसः || ६ मनसोऽनेकत्वात् ॥ ७ * °यापेक्षः, ज्ञानत्वात्, इति मूलादर्श पाठः || ८ विकल्प उपादान - प्रत्ययापेक्षः । ९ प्रतिनियत विषयज्ञानत्वाश्चाक्षुषादिवत् ॥ १० प्रतिनियतो विषयो ग्राह्यो यस्य । एतावता सर्वविषयग्राहकस्य केवलज्ञानस्य निरासः || 10 For Private & Personal Use Only 15 25 www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy