________________
४८
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
यदप्युक्तम्
" न च मूर्तत्वेन स्पर्शोऽनुमातव्यः, तद्विरहेण चाऽमृतत्वम् , मूर्तत्वस्य स्पर्शविरहे विरोधाभावात् । अवैभवनिमित्तं हि मूर्तत्वम्” [प्रशस्त किरणावली पृ० १०३] इति, 744 तदपि नातिनिपुणम् , अस्पर्शवतोऽचेतनद्रव्यस्याऽवैभवस्यव पापीयस्त्वात् , अविभोरचेतनद्रव्यस्य स्पर्शवत्वेन व्याप्तत्वात् , व्यापकाभावे व्याप्यसद्भाव एव च विरोध इति । 5
___ एतदेवाह-विभुत्वं चेति । यदि स्पर्शभावो मनस: स्यात्तदा विभुत्वं च स्यात् ,
अचेतनास्पर्शद्रव्यत्वात् , अचेतनस्यास्पर्शस्य च सतो द्रव्यत्वात् । अचेतनपदेनात्मना अस्पर्श74B पदेन परमाण्वादिभिर्व्यभिचारनिरासः । यदचेतनमस्पर्शवच्च द्रव्यं तदस्माकं भवतां
च मते विश्वेव, यथा धर्माऽधर्मा-ऽऽकाशानि । प्रसङ्गश्चायं विपर्ययनिष्ठस्ततो न हेत्वसिद्धिः, विपर्ययहेतोापकामावस्य सिद्धन्वात् ।
10 ____ अयमत्र निष्यन्दः - प्रसिद्धव्याप्यव्यापकमावयोर्मध्यादेकं व्याप्यं वादिन
मभ्युपगमय व्यापकाभ्युपगमः प्रसञ्जयते । यदि स्पर्शरहितं मनः प्रपद्यथास्तदाऽचेतना75A स्पर्शद्रव्यस्यावश्यं वैभवदर्शनाद् वैभवमप्यस्य मन्येथाः । भवति हि व्याप्यस्य शिंशपा
त्वस्य सम्मवेऽवश्यं व्यापकस्य वृक्षत्वस्य सम्भवः । ततः प्रसङ्गविपर्यय: क्रियते । यदि मनसो वैभवं न स्यात् तदाऽचेतनास्पर्शद्रव्यत्वमपि न स्यात् , भवति हि व्याप- 15 कस्य वृक्षत्वम्याभावेऽवश्यं व्याप्पस्य शिशपात्वस्याभाव: । व्यापकवैभवाभावश्चोभयवादिसम्प्रतिपन्नः ।
___ कः पुनर्विभुत्वे दोषः ? ज्ञानयोगपद्यम् । मनसो विभवे हि एकेन्द्रियग्राह्या इव नानेन्द्रियग्राह्या अपि रूपादयः सकृदेव ज्ञायेरन् , कारणयोगपद्यात् । तज्ज्ञानायोगपद्यमिच्छता मनसो वैभवं नष्टव्यम् । अस्पर्शवत्वे च तदुपतिष्ठते । तदेनेकदोषो- 20 पस्थापकमस्पर्शत्वमेव मनसो नैष्टव्यमिति ।
न केवलं विभुत्वम् , तथा निष्क्रियत्वं च मनसः स्यात् अवेतनास्पर्शद्रव्यत्वादाकाशवत् । प्रसङ्गविपर्ययभावनाऽत्रापि पूर्ववदेव । सम्प्रत्युपसंहरति-तत् तस्मादचेतनासर्वगतापरमाणुद्रव्यत्वाद् मूर्तकरणत्वाद् मूर्तत्वेन स्पर्शयचाच मनः पौगलिकमिति स्थितम् । १. “वाऽमूर्तत्वम् , मूर्तस्य स्पर्शविरहे विरोधाभावात् , विभवस्य च परममहत्त्वेन सह विरोधादित्याह- 25 क्रियावत्त्वान्मूर्त मन इति ।" इति मुद्रितायां किरणावल्यां पाठभेदः ॥ २ विभुत्वं च स्यात् ॥ ३ सूत्रम् ॥ ४ अचेतनास्पर्शद्रव्यत्व ॥ ५ सूत्रम् ॥ ६ तन्मनः पौगलिकम् ॥ ७ * दृश्यतां पृ० ४५ टि० १॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05