________________
पुद्गलभेदवर्णनम |
न चैचं स्पर्शवच्चे सति शरीरान्तराशु सञ्चरतो मनसो वायोरिव प्रतिस्खलने क्वचिदिन्द्रियान्तरेणासम्बन्धाश्चिरं रूपादिविषयस्यापरिच्छेदप्रसङ्गः, मैनसः शरीरव्यापित्वेन सञ्चारस्यैवाभावात् । न च व्यापकत्वेन मनसो युगपत् सर्वेन्द्रियसम्बन्धात् युगपत् सर्वेन्द्रियज्ञानोत्पत्तिप्रसङ्गः, सर्वेन्द्रियावरणक्षयोपशमस्य मिन्ननिमित्तापेक्षत्वेन युगपदसम्भवात् । तेन यदुक्तम्- " तथा स्पर्शवत्वे सति मनसः शरीरे सञ्चरतो वायोरिव 5 प्रतिस्खलने क्वचिदिन्द्रियान्तरेणाऽसम्बन्धादनेककालं रूपादेर्विषयस्याग्रहणमपि स्यात् । न चैतत् सुषुप्तावस्थामन्तरेण दृष्टम् " [प्रशस्तपादभाष्यटीका व्योमवती पृ० ४२७ ] 72B इति, तदपि निरस्तम् । तस्मात् पौङ्गलिकत्वाद् मनः स्पर्शवत् सिद्धम् ।
स्यादेवम्- 'मनोऽस्पर्शवत्, शरीरान्यत्वे सति सर्वविपयज्ञानोत्पादकत्वात्, आत्मवत् ' इति प्रमाणबाधितं मनसः स्पर्शवच्चं कथं पौहलिकत्वमुपकल्पयेदित्यत आह- 10 न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । न चेति । शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवं (च) मनो न चास्पर्शवदिति सम्बन्धः । कुतः ? परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्माऽस्पर्शवान् । परमाण्वनिष्पाद्यत्वादात्माऽस्पर्शवान् स्पर्शरहितः सिद्धः । परमाणुमिव्यभिचारपरिहारार्थं परमाण्वन्यत्वे सतीति विशेषणम् ।
४७
15
शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादिति हेतुरप्रयोजकः । आत्मा हि परमाण्वन्यत्वे सत्यपौगलिकत्वात् स्पर्शरहितः, न पुनः शरीरान्यत्वे सर्वविपयज्ञानोत्पादकत्वात् । अस्य च साध्यव्यापकत्वं यथा - यो योsस्पर्शः स स परमाण्वन्यत्वे सत्यपौगलिक:, यथाssकाशादीनि । यः पुनः शरीरान्यत्वे सर्वविपयज्ञानोत्पादकः न स परमाण्यन्यत्वे सत्य पौगलिकः, यथा ज्ञानसामग्रीपतितोऽर्थ इत्युपाधिलक्षणयोगादुपाधि73B त्वम् । निश्चितानैकान्तिको वा ज्ञानसामग्रीपतितेन सर्वविषयज्ञानोत्पाद के नार्थेनैवेति । अत आत्मदृष्टान्तेन शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वाद्धेतोर्ना स्पर्शवत्वं मनसः सिध्यति । आत्मनि प्रकारान्तरेण तस्य सिद्धत्वात् तत् पौगलिकत्वाद् मनसः स्पर्शवत्वं सिद्धम् ।
20
१ उत्तरम् ॥ २ स एव वक्ति ॥ ३ अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् । अस्पर्शवत्त्वं मनसः शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादात्मवत् सिद्धम् । अस्माचात्मवदेव सजातीयद्रव्यानारम्भकत्वम् " इति 25 प्रशस्तपादभाष्यटीकायां न्यायकन्दल्याम् पृ० २२५ ॥ ४ * अत्र पाठस्य धृष्टत्वात् सम्यक् पठितुं न शक्यते, अतो दित्याह इति पाठोऽप्यत्र सम्भवेत् ।। ५ सूत्रम् || ६ सूत्रम् ॥ ७ शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादिति । कोऽर्थः १ स्पर्शवत्यपि दर्शनात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org