________________
४६
स्वोपाटीकासहिते व्रज्यालङ्कारे द्वितीये प्रकाशे विपक्षे बाधकमाह- अन्यथा यदि पौद्गलिकत्वं नेष्यते तदा स्पर्शवत्त्वाभावेन तदभावस्तस्याचेतनासर्वगतापरमाणुद्रव्यत्वस्याभावः स्यात् । तदियं व्यापकानुपलब्धि: । अवेतनासर्वगतापरमाणुद्रव्यत्वं स्पर्शवत्वेन व्याप्तं घटादावुपलब्धम् , तस्य च व्यापकं पौद्गलिकत्वम् , ततो यदि मनः पौद्गलिकं न स्यात्तदा स्वव्यापकनिवृत्या स्पर्शवचं निवर्तेत । तथा चाचेतनासर्वगतापरमाणुद्रव्यत्वमपि ।
5 71 न केवलमचेतनासर्वगतापरमाणुद्रव्यत्वात् , तथा 'मूर्तकरणत्वाच्च पौद्गलिकं मनः,
चक्षुरादिवदिति साधर्म्यम् । आदिशब्देन शेषेन्द्रियग्रहः । मूर्तग्रहणं भावमन-इन्द्रियाऽऽकाशादिमिः करणग्रहणं च परमाणुभिर्व्यभिचारनिरासार्थम् । पौद्गलिकं मनः, जीवस्यार्थपरिच्छेदकर्मणि मूर्तरूपकरणत्वात् , द्रव्यरूपचक्षुरादीन्द्रियवत् ।
__ न चक्षुरादीनां मूर्तकरणत्वेन पौगलिकत्वम् , कि तर्हि ? प्रतिनियतभूतगुण- 10 व्यजकत्वेन । यत्पृथिव्यादिभृतगुणव्यञ्जकं यदिन्द्रियं तत् तस्य पृथिव्यादिभूतस्य कार्यम् , तथा च तद्रूपमिति चेत् । न । स्ववियसभिकर्षे: स्वगुणैश्च व्यभिचारात् । यथा हि घ्राणं पृथिवीगन्धस्याभिव्यक्षकमेव घ्राणार्थसन्त्रिकर्षों घाणस्थो गन्धश्च ।
यथा वा चक्षुः स्वविषयरूपाभिव्यञ्जकमेवं चक्षुर्विषयेस त्रिकर्षश्चक्षुरूपं च । तथा च 71B गुण-सन्निकर्षयोर्भूतगुणव्यमकत्वात् पार्थिवादिवप्रसङ्गः, एवं स्पर्शन-रसनयोरपि, कर्ण- 15
शुष्कुल्यवष्टब्धाकाशरूपश्रोत्रन्द्रियेण व्यभिचागच्च । कार्यद्रव्यत्वे सतीति विशेषणादेदोष इति चेत, क एवं सति वक्रोक्तिमृतेऽस्मत्पक्षाद् भेदः? य एवार्थो मूर्तकरणत्वादित्यस्य स एवार्थः कार्यद्रव्यत्वे सति प्रतिनियतभूतगुणव्यमकवादित्यस्यापि । अभिव्यमकं
हि करणमेवेति यत् किश्चिदेतत् । । 72A अथ मनसः स्पर्शवचमाह-अतश्च स्पर्शवत् । अथ प्रमाणसिद्धात् पौद्गलिकत्वाद् 20 मनः स्पर्शवदेवाभ्युपगन्तव्यम् । ततो यदुक्तम्
“न च मनसः स्पर्शवत्वे प्रमाणमस्ति, मनस्त्वजातीयस्य स्पर्शवकार्यस्यानुपलब्धेः" [प्रशस्तपादभाष्यटीका व्योमवती पृ० ४२७ ] इति, तत् प्रत्युक्तम् । न च मनस्त्वजातीयस्थ स्पर्शवकार्यस्यानुपलम्मोऽस्ति । यस्मादनित्यत्वाद् मनःस्कन्धस्यौदारिकादिस्कन्धपरिणामाभ्युपगमेन स्पर्शवकार्यसम्भवात् । 25 १ अन्यथा स्पर्शवत्वाभावेन तदभावः ॥ २ प्रतिषेध्यम् अचेतनासर्वगतापरमाणुद्रव्यत्वम् , तस्य व्यापकं स्पर्शवत्त्वम् , तस्यानुपलब्धिः ॥ ३ मूर्तकरणत्वाञ्च चक्षुरादिवत् ॥ ४ भावेन्द्रियम् ॥ ५ श्रोत्रमाकाशम् ॥ ६ परः ।। ७ यच्च तत् पृथिव्यादिभूतं च, तस्य गुणः, तस्य व्यञ्जकत्वम् ॥ ८ 'इन्द्रिय चार्थेन' इति सन्निकर्षः ॥ ९ एतेषामपि पौद्गलिकत्वं स्यात् ॥ १० ओस् [=षष्ठीद्विवचनम् चक्षुर्विषययोः सन्निकर्ष इत्यर्थः] ॥ ११ तन्न गुणसन्निकर्षाभ्यां व्यभिचारः ।
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org