________________
पुद्गलभेदवर्णनम् । मनस्तमःशब्दोद्योतादयस्तभेदाः । भावमनोहेतुः करणविशेषात्तः स्कन्धो मनः अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौद्गलिकम् , अन्यथा स्पर्शवत्त्वाभावेन तदभावः । मूर्तकरणत्वाञ्च चक्षुरादिवत् । अतश्च स्पर्शवत् । न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् । परमाण्वन्यत्वे सति अपौद्गलिकत्वादात्मा 5 अस्पर्शवान् । विभुत्वं च स्यात्, अचेतनास्पर्शद्रव्यत्वात्, निष्क्रियत्वं च । तद् मनः पौद्गलिकम् ।
तदेवमणूनां स्कन्धस्य च स्वरूपमभिधाय स्कन्धभेदानभिदधाति-मैन इति । आदिशब्देन छाया-कर्म-प्राणापानादिग्रहः । तस्य पुद्गलभेदस्य स्कन्धस्य भेदाः प्रकाराः।
तत्र मनःस्वरूपामुच्यते-भावमनोहेतुर्यः स्कन्ध इति सम्बन्धः । भावमनो जीवस्य 10 10A परिणामविशेषः, तस्य हेतुः यतः पुद्गलस्कन्धाजीवस्य भावमनो भवतीत्यर्थः करण
विशेषो मनःपर्याप्तिनामा जीवस्य शक्तिविशेषः, 'तेनाऽऽत्त आत्मना गृहीतः स्कन्धोऽनन्तानन्तमनोयोग्यवर्मणापरिणामरूपो मन इत्युच्यते । स्कन्ध इत्येकवचनं जात्यपेक्षम् , न ह्येको द्वौ त्रयो वा पुद्गलस्कन्धा मनीभवन्ति, किं तर्हि ? बहवः ।
सम्प्रति मनस: पौगलिकत्वं साधयति-अचेतनेति । पुद्गलाः प्रयोजनमुत्पादका 15 अस्य “प्रयोजनम्" [ सि० ६।३।११७] इतीकणि पौद्गलिकम् , पुद्गला अवयवभूता अस्य सन्ति “अतोऽनेकस्वरात्" [सि० ७२१६] इतीके "प्रज्ञादिभ्योऽण"
[सि० ७।२।१६५] इति स्वार्थिकेऽणि वा पौद्गलिकं मन इति प्रकृतम् । तत्र 10B 'अचेतन 'पदोपादानाजीवेन न व्यभिचारः असर्वगतोपादानान्नाकाशादिना, 'अपरमाणु'
पदोपादान परमाणुना, द्रव्योपादानान्न गुण-कर्म-सामान्य-विशेषादिभिः । मनः पौगलिकम् , 20 अचेतनासर्वगतापरमाणुद्रव्यत्वात् घटादिवदिति ।
१ * मूर्तकरणत्वावा चक्षुरादिवत् । मूर्तत्वेन स्पर्शवत्त्वाच्च । न च सर्वविषयज्ञानहेतुरित्येव अस्पर्शवत । द्रव्यत्वे सति सकृत् सर्घमूर्ताभिसम्बन्धाहत्वादात्माऽस्पर्शवान् , नैव मनः । विभुत्वं च स्यात्' इति मूलादर्श सूत्रपाठः ॥ * ॥ २ मनस्तमःशब्दोद्योतादयस्तभेदाः ॥ ३ पुद्गलो हि पूर्व विभेद उक्तः 'अणवः स्कन्धाश्च' [पृ० १८ पं० ७] इति, तत्र 25 स्कन्धलक्षणस्य भेदस्य भेदा एते ॥ ४ भावमनोहेतुः करण विशेषात्तः स्कन्धो मनः ॥ ५ क्षयोपशमो ज्ञानं वा ।। ६ करणभूतेन ॥ ७ का ॥ ८ अचेतनासर्वगतापरमाणुद्रव्यत्वात् पौगलिकम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org