________________
10
४४
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे देशान्तरसंसर्गनिषेधः । तद्देशत्व-तंददेशत्वयोस्तु स्याद्विरोधः । तच्च नेष्यते, देशान्तरविधानेन तद्देशत्वस्यानिषेधात् । एवं कम्पा-ऽकम्प-रक्ता-रक्ता-ऽऽवृता-ऽनावृत-गृहीताऽगृहीतत्वादीनामपि विरोधः परिहरणीयः ।।
एतेन यदुक्तम्
"नापि स्थूल एको विषयस्तधावभासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तः । 5 अकम्पने च चलाचलयो: पृथक् सिद्धिप्रसङ्गाद्वस्त्रोदकवत् । एकस्यावरणे सर्वस्यावरणप्रसङ्गः, अभेदात् । न वा कस्यचिदावरणमित्य विकलं दृश्येत ।" तथा " रक्ते चैकस्मिन रागः, अरक्तस्य वा गतिः। अवयवरागे वाऽवयविरूपमरक्त मिति रक्तारक्तं दृश्येत । तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० २६२ - ] इति, तत् प्रत्युक्तम् , सर्वस्यापि कम्पा-ऽकम्पादेरविरोधेनावयवाभेदादनेकैत्वेन च घटनात् ।
सम्प्रत्यवयवेभ्योऽवयविन एकान्तभेदनिराकारकमनुमानमुच्यते-अवयवी नावयवेभ्य 69 A एकान्तभिन्नः, कार्यद्रव्यत्वे सति तत्संयोगाविषयत्वात् । यः पुनयस्मादेकान्तभिन्नः स
तेन सह कार्यद्रव्यत्वे सति संयोगाविषयोऽपि न भवति, यथा घटात् पटः। एकान्तभेदः कार्यद्रव्यत्वे सति तत्संयोगविषयत्वेन व्याप्तः, तद्विरुद्धश्चायं कार्यद्रव्यत्वे सति तत्सं- 15 योगाविषयत्वलक्षणो हेतुरिति व्यापकविरुद्धोपलब्धिः। तदवयवावयपिनोः कथञ्चिदभेद
एव सम्बन्ध इति स्थितम् । 69 B सम्प्रति प्रस्तुतमुपसंहरति-तत् तस्मादवयवाभेदी अवयवेभ्यः कथश्चिदमिन्त्रः
स्कन्धो द्रव्यं परपरिकल्पितं द्रव्यमुच्यते, नान्यत् किञ्चित् । १ यत्रैवं प्रयोगः क्रियते-अत्र देशेऽस्ति, तत्र देशान्तरनिषेधो न हि । यत्र तु 'अत्रैवास्ति' इत्यवधारण- 20 सहितः तत्र देशान्तरनिषेधः स्यादिति भावः ॥ २ किमेकान्तकम्प एकान्ताकम्पेन आहोस्वित् कथञ्चित् कम्पः कथञ्चिदकम्पेन सह विरुध्यत इति विकल्प्य पूर्वप्रकारेण परिहारः ।। ३ बृहद्धर्मोत्तरेण ।। ४ अवयविनः ।। ५ पाणेः ॥ ६ अवयविनः ।। ७ अवयवे ॥ ८ सर्वस्यावयविन इति द्रष्टव्यम् ॥ ९ अथ न रागस्तर्हि अरक्तस्य वा गतिर्ज्ञानं स्यात् ॥ १० ज्ञानम् ।। ११ किंचान्यद् दूषणम् ॥ १२ अवयविनः ।। १३ तैरवयवैः सह संयो॥ १४ 'संयोगाविषयत्वात्' इत्येवोच्यमाने परस्य सत्तया व्यभिचार: स्यात् यतः सत्तायाः 25 समवाय एवेष्यते परैरिति 'कार्यद्रव्यत्वे ' इति विशेषणम् । कार्यत्वे सतीति क्रियमाणे गुणैर्व्यभिचारः स्यादिति द्रव्यपदम् । इति परस्य व्यभिचारनिरासाथै विशेषणानि । द्रव्यत्वे सतीति क्रियमाणे आकाशादिभिर्व्यभिचारः स्यात् ॥ १५ प्रतिषेध्यस्य एकान्तभेदस्य व्यापकं ' कार्यद्रव्यत्वे सति संयोगविषयत्वम् ', तस्य विरुद्धं कार्यद्रव्यत्वे सति संयोगाविषयत्वम् , तस्योपलब्धिः ॥ १६ तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org