________________
४३
एकान्तभिन्नावय विवादिनैयायिकमतनिरासः । नन्वयं तुलानतिविशेषो युष्मत्पक्षेऽपि प्रामोति, कथञ्चिदेकत्वपरिणतेरधिकाया उत्पादादिति । उच्यते- यदा त्वणव एव नाधिकं किश्चित् तथा घनादिभावेन
परिणमन्तेऽनेकत्वपरिणाममपहाय कथञ्चिदेकत्वपरिणाममुपयन्ति सदाऽस्माकं तुलानति68A विशेषदर्शनलक्षणो दोषो न भवति । वयं हि त एवाणवस्तावन्मात्रसत्ताका एवैकत्व
भावमनुभवन्ति न पुनस्तेभ्यः किश्चिदधिकमुत्पद्यत इति प्रपन्नाः, अतोऽधिकस्य 5 लवस्याप्यनुत्पादात् कुतो नतिविशेषदर्शनप्रसङ्गः स्यात् ?
तदयमवयवेभ्यः स्यादभिन्नः । अत एव एकत्वा-उनेकत्वकम्पा-ऽकम्पायुपपद्यते । तत् स्यादवयवाभेदी स्कन्धो द्रव्यम् ।
सम्प्रति प्रस्तुतमुपसंहरति-तंत् तस्मादयमवयवी अवयवेभ्यः सकाशात् स्यात् कथश्चिदभिन्नः, एकान्तभेदे पूर्वोदितदोषप्रसङ्गात् । अत एवेति यत एवावयवेभ्य कथ- 10 चिदमिन्नोऽवयवी अत एवैकत्वा-ऽनेकत्व-कम्पा-ऽकम्पाद्युपपद्यते घटमानकम् । आदिशब्दाद्
रक्तत्वारक्तत्वादिग्रहः । एकोऽवयवी, अवयवेभ्यो भेदात् । अत एवाचलश्च । अवयव68 B चलनेऽप्यचलनात् । तथाऽनेकः, अवयवेभ्योऽभेदात् । अत एव चलच, अवयवचलने
चलनात् । एवं रक्तत्वारक्तत्वाद्यपि भावनीयम् ।
ननु कथमेकस्यैवैकानेकत्वाद्युपपद्यते विरोधादिति । उच्यते-किमिदमेकत्वमने- 15 कत्वस्य विरुद्ध मिति पृष्टो व्याचष्टां भवान्-'किमेकान्तेन उत कथञ्चित् ? तत्र न पूर्वम् , अनभ्युपगमात् । द्वितीयं पुनरनेकत्वनान्तरीयकमेव । अन्यथा कथश्चिचमेव न स्यात् । विरोधात् कथञ्चित्रमेवासिद्धमिति चेत् । न । विरोधो हि द्विष्ठः, तत्र कथञ्चिदेकत्वस्य किमेकान्तानेकत्वेनेति कथश्चिदनेकन्वेनेति पूर्वकमेवावर्त्तते । अथानुपलम्भात् कथश्चिदेकत्वाघटनमुच्यते तदप्यसङ्गतम् , कथञ्चिदेकत्वस्यैवोपलम्मात् । 20 तथाहि-घटपटवत् सर्वदाऽवयवाक्यविनो: पार्थक्येनाऽनुपलम्मादभेदोपलम्भः। अयमस्य पटम्याञ्चल इति प्रत्ययाद् भेदोपलम्भश्चेति । अस्तु तहि तस्यैव युगपत् तदेशत्वमतदेशत्वं च विगेधः । न । विरोधलक्षणाभावात् । न हि तद्देशसंसर्गविधौ नियमेन १ यदा त्वणव एव तथा परिणमन्ते तदा न दोषः ॥ २ तदयमवयवेभ्यः स्यादभिन्नः॥ ३ अत एवैकत्वा-ऽनेकत्व-कम्पा-ऽकम्पायुपपद्यते ॥ ४ अवयवी ॥ ५ किगेकान्तेनेति । किमे- 25 कान्तैकत्वमेकान्तानेकत्वेन सह आहोस्वित् कथञ्चिदेकत्वं कथञ्चिदनेकत्वेन सह विरुदमिति विकल्पद्वयम् ॥ ६ तत्रैव देशेऽस्तित्वं तत्रैव नास्तित्वमेवलपणमित्यर्थः ॥ ७ प्रस: [-प्रथमसमास: बहुव्रीहि रित्यर्थः] || ८ सोऽदेशो यस्य ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org