________________
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे वितीये प्रकाशे न केवलं पतनधर्मकत्वादवयविनो गुरुत्वम् , तथा गुणानां गुणान्तरारम्भाच्च । यथा ह्यवयवगुणा रूपादयोऽवयविनि रूपादिगुणानादधति तथा गुरुत्वमपि । न च गुणानां गुणान्तरारम्भणमसिद्धम् , भवद्भिरभ्युपगतत्वात् । तदुक्तम्
____ " अपाकजरूप-रस-गन्ध-स्पर्श-परिमाणकत्वैकपृथक्त्व-गुरुत्व-द्रवत्व-स्नेह-वेगाः कारणगुणपूर्वकाः " [प्रशस्तपादभाष्ये ] इति । ततः कथमवय विनो गुरुत्वाभावेन तुलानतिविशेषो न स्यात् ?
ननु यथा समत्स्येन केवलेन चाम्भसा समाक्रान्तस्य तुलादण्डस्य तावत्येव 66B नतिर्दृश्यते अथ चाम्भसो मिन्नो मत्स्यो गुरुत्ववांश्च तथाऽधिकावयव्युत्पत्तावपि स्यादिति ।
उच्यते-जैलादयः, आदिशब्देन दुग्धघृतादिग्रहः, मत्स्यादीनामेव, आदिशब्दात् काष्टादिग्रहः, गुरुत्वं प्रतिबध्नन्ति तुलानत्यादिकार्यकरणासमर्थ कुर्वन्ति । एवकारः सर्वत्र प्रति- 10 बन्धकत्वाभावार्थ: । गुरुत्वकार्य तुलानतिविशेषः । जलादिमिश्च मत्स्यादीनां गुरुत्वं सदपि स्वकार्याकरणक्षमं क्रियते, अतः कथं जलादिभ्यो मत्स्यादीनामाधिक्येऽपि तुलानतिविशेषः स्यात् ? यत्र तु पाषाणादौ जलादिना गुरुत्वं न प्रतिवध्यते तत्र भवत्येव नतिविशेषः ।
गुरुत्वप्रतिबन्धश्च पतनस्खलनदर्शनात् मत्स्यादेरधः पततो जलादिना स्खलन- 15 67 दर्शनादवसीयते। अत एव च मत्स्यादयो जलादीनामुपरिष्टादेव प्लवन्ते, नाघो निम्जन्ति ।
नैवमवयविनः, यथा पतनम्खलनदर्शनेन मत्स्यादिगुरुत्वस्य जलादिना प्रतिबन्धोऽवसीयते नैवमवयवैश्वयविगुरुत्वस्य प्रतिबन्धोऽवसातुं शक्यः । मत्स्यादयः पापाणादयश्चान्यत्र क्वचित् पतन्तो दृष्टाः । यदा जलादौ पाषाणादय एवाधः पतन्ति न 20
मत्स्यादयस्तदाऽवसीयते जलादिना मत्म्यादीनां गुरुत्वं प्रतिबद्धमिति । अवयवी 67B तु सर्वदाऽपि स्वावयवाधारः क्वचिदपि नाधः पतन्नुपलब्धोऽतः कथं पतनस्खलन
दर्शनेनास्य गुरुत्वप्रतिबन्धः प्रत्येतुं शक्यः । न च मेर्वा दिवदधःपतनानुपलम्भेऽप्यवयविनो गुरुत्वप्रतिबन्धोऽस्तीति वाच्यम् , संयोग-प्रयत्न-संस्काराणामेव गुरुत्वं प्रति भवता विरोधित्वाभ्युपगमात् । न चैतदवयविन्यस्तीति । तद् गुरुत्वस्याप्रतिबद्धत्वात् 25 तलानतिविशेषः स्यादिति । १ सूत्रम् ॥ २ जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिबध्नन्ति ॥ ३ कोऽर्थः ? मत्स्यादीन् प्रति प्रतिबन्धकत्वं जलस्य, न पाषाणादीन् प्रति ॥ ४ मत्स्यादीनां गुरुत्वप्रति ।। ५ सूत्रम् ॥ ६ बन्धः कथं ज्ञायते इत्याह || ७ * दृश्यतां पृ० ४१ पं० १८ ।। ८ विरोधि कारणम् ।। ९ किन्तु समवाय एवास्ति ॥
30
Jain Education Intemational 2010_05
For Private & Personal Use Only
www.jainelibrary.org