________________
एकान्तभित्रावय विवादिनैयायिकमत निगमः । " महत्त्वादनेकद्रव्यवत्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् ” [वैशेषिकसूत्रे ४।१।६] इति । तस्मादधिकोत्पत्तौ तुलानतिविशेषस्तदुपलम्भश्च स्यादिति ।
स्यादेतत्-अधिकोत्पत्तावपि गुरुत्वाभावेन तुलानतिविशेषो न भवतीति । तन्न । यस्माद् गुरुत्वं च स्यादिति सम्बन्धः । पैतनधर्मकत्वादवयविनोऽधःपातदर्शनात् । 65A न खलु गुरुस्पर्शाभावेऽधःपातः सम्भवति, तस्य तद्वेतुकत्वात् । यदयोचाम- 5
"अधोगतेर्गुरुः" [ पृ. ३] इति । न च स्वगतगुरुत्वाभावेऽप्याश्रयगुरुत्वादेवाधः-- पातः, रूपादीनामप्यभावप्रसङ्गात् , आश्रयरूपादिमिरेव प्रत्यक्षत्वादिघटनात् ।
यत्तक्तम्
" अवनतिविशेपानुपलम्भश्च कार्ये मक्षिकादिगुरुत्वसम्पर्केणापि समान इति । तथाहि-तन्तुषु मीयमानेषु मक्षिकादिसम्पर्केऽप्यवनतिविशेषो नोपलभ्यते । न च 10
तद्गुरुत्वस्यासचम् " [ प्रशस्तपादभाष्यटीका व्योमवती पृ० ६३०] इति । 65B तदयुक्तम् । तन्तुगुरुत्वाद् मक्षिकागुरुत्वस्यातिस्वल्पत्वेन नतिविशेषस्यातिसूक्ष्मत्वात्
प्रतिपत्तनैपुण्याभावाच सतोऽप्यनुपलक्षणम् , न पुनरम्त्येव न । यत्र पुनर्मक्षिकागुरुत्वमधिकं प्रतिपत्तनैपुण्यं च भवति तत्र नतिविशेषोऽवश्यमुपलभ्यत एव । न खलु केवलगुलाफलाक्रान्तस्य मक्षिकालेक्षाविलगुनाफलाक्रान्तस्य च तुलादण्डस्य तावतीमेव नतिमति- 15 निर्मललोचनाः पश्यन्ति । गुरुत्वं चाप्रत्यक्षं परेऽभ्यमंसत, अतस्तदुक्तेनैव हेतुना साध्यते । यदाहुस्ते
"गुरुत्वं जल-भृम्योः पतनकर्मकारणमप्रत्यक्षं पतनकर्मानुमेयं संयोगै-प्रयत्नसंस्कारविरोधि" [ प्रशस्तपादभाष्ये ] इति । तदवयविनो गुरुत्वभावात्तुलानतिविशेषोपलम्भः प्रामोति ।।
20
66A
१ सूत्रम् || २ सूत्रम् ॥ ३ गुरुत्वमपि कुत इत्याह ।। ४ गुरुत्वहेतुकत्वात् ।। ५ पतनकार्यदर्शनाट् गुरुत्वं कारणमनुमीयते ।। ६ अवयवि ।। ७ अवयवरूप ॥ ८ इति वाच्यम् , कुतः १ ॥ ९ अवयविद्रव्ये ॥ १० मक्षिकादि ।। ११ णां [=मक्षिकाणां] ॥ १२ एक ।। १३ लक्षसंख्यया बहुत्वं लक्ष्यते ।। १४ एकगुञ्जा । १५ किन्त्वधिका नतिं पश्यन्तीत्यर्थः ॥ १६ नन्ववयविनो गुरुत्वस्य प्रत्यक्षत्वं किमिति नोक्तम् १ किमिति हेतुतासाधनं कृतमित्याह- गुरुत्वमिति ॥ १७ 'पतनधर्मकत्वात्' इत्येवंरूपेण ॥ १८ संयोगप्रयत्नसंस्कारा 25 विरोधिनो यस्य, तत्र संयोगो विरोधी पततो बदरस्य कुण्डयोगेनाधःपाताभावः, पक्षी स्वकार्य प्रयत्नेन धरति, धनुषा मुच्यमानो बाणो वेगाख्येन संस्कारेण न पतति ।। १९ वेग ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org