________________
एकान्तभिन्नाययविवादिनैयायिकमतनिरासः । समवायिकारणं तु स्वावयवा एव । अतोऽग्नेरुत्पादेऽपि धूमस्य न तत्र समवायरूपा वृत्तिरुच्यते, उत्पादकत्ववत् समवायिकारणत्वस्यापि लक्षणत्वादिति न समवायरूपवृत्तिलक्षणस्यातिव्याप्तिरिति ।।
समवायः समवायसद्भावो निबन्धनं कारणं यस्य स तथाभृतस्तद्भावः समवायि61 B कारणत्वं कथं न तस्याग्नेर्भवति । धूमावयवा हि स्वावयविनो जनकत्वेन समवाय- 5
सद्भावेन च समवायिकारणमुच्यन्ते । तदेतदग्नेरप्यस्ति, अग्नेरुत्पादादेकत्व-सर्वगतत्वाभ्यां समवायसद्भावाच्च । ततश्चोत्पादकत्वात् समवाययोगेन समवायिकारणत्वाचाग्नौ धूमस्य समवायरूपा वृत्तिः स्यात् । न चैवम् । अत एकान्तभेदाभ्युपगमे परमाणुष्वक्यविनः समवायरूपा वृत्तिन घटत इति कथञ्चिदभेदोऽभ्युपेयः ।
तथापि नांशेन, अनंशत्वात् । सर्वात्मनापि, तच्छृन्यतापादात् 10 बहुत्वप्रसङ्गाच्च । अनंशस्य अंशानंशकल्पनावद् वृत्तेरप्ययोगः, एकान्तभेदिवृत्तेस्तद्व्याप्तेः । अधिकोत्पत्तौ च तुलानतिविशेषः स्यात्, उपलक्षणं च, महत्त्वात् उपलभ्यत्वात् । गुरुत्वं च, पतनधर्मकत्वात् गुणानां गुणान्तरारम्भाच्च । जलादयो मत्स्यादीनामेव गुरुत्वं प्रतिवध्नन्ति, पतनस्खलनदर्शनात् । नैवमवयविनः। यदा त्वणव 15 एव तथा परिणमन्ते तदा न दोषः ।।
अथवा भवेदवयवेष्ववयविनः समवायरूपा वृत्तिस्तथापि नांशेन नैकदेशेनाक्यविनो62A ऽवयवेषु वृत्तिर्घटते। अवयवी हि प्रत्यवयवं किमेकदेशेन वर्तते उत सर्वात्मना? तत्र
नेकदेशेन, अनंशत्वादवयविनोंऽशाभावात् । अवयविनो हि स्वावयवा एवांशाः, तेषु च वृत्तिचिन्ता प्रारब्धा, अंशान्तराणि च न सन्तीति कथमेकदेशेन वृत्तिर्घटेत ? 20 न केवलं नांशेन, सर्वात्मनापि कात्स्न्ये नाप्यवयविनोऽवयवेषु वृत्तिन घटते, कुतः ? तच्छून्यतापादात् । तेषां यस्मिन्नवयवी वर्तते ततोऽन्येपामवयवानां शून्यतापादादवयविराहित्यापत्तेः प्रसङ्गात् । अथवा तेनाऽत्रयविनाऽऽकान्तावयवस्य शून्यतापत्तिप्रसङ्गात् , १ समवाय निवन्धनस्तद्भावः कथं न तस्य ॥ २ धूमाव ।। ३ सूत्रम् ।। ४ अवयविराहित्यप्रसङ्गात् || ५ अवयवानां मध्ये ॥ ६ अवयवे ॥ ७ सर्वात्मना ॥ ८ पूर्वा ॥ ९ अवयविरहित्यप्रसङ्गात् ॥ 25 १० यदा सर्वात्मना एकमवयवं व्याप्य द्वितीयमपि सर्वात्मना व्याप्रोति तदा पूर्वस्यावयवस्यावयविराहित्यं स्यात्, न यककालं सर्वात्मनाऽवयवद्वयं व्याप्तुं शक्नोतीत्यभिप्रायः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org