________________
59B
स्त्रोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे सा पूर्वप्रसाधितैकत्वपरिणतिः परमाणूनां कथश्चिदेकत्वपरिणामरूपा स्यात् कथञ्चिदवयवाभेदिनी परमाणुभ्यः कथश्चिदभिन्ना द्रव्यमिति वेदितव्यम् । यदेतद् नैयायिका द्रव्यमित्याहुः सा परमाणूनामेकत्वपरिणतिरेवोच्यते ।
___ अत्र च न द्रव्यं साध्यते, तस्य परैरपीष्टत्वात् । किं तर्हि ? कथञ्चिदवयवावयविनोर581 भेदः, तयोः सर्वथापि परैर्भेदस्येष्टत्वात् इति कथञ्चिदभेदमेव साधयितुं परं पृच्छति- 5 59A एकान्तभेदे सर्वथाप्यवयवावय विनोभेदाभ्युपगमे तेषु परमाणुलक्षणावयवेषु तस्यावयविनो
वृत्तिः का ? वृत्तिशब्देन किमुच्यते ? अस्माकं तावद् द्रव्यस्यावयवेषु वृत्तिः कथञ्चिदभेद एवोच्यते, भवतां पुनरेकान्तभेदवादिना केति ?
परः प्राह- समवायः । वृत्तिशब्देन समवायः सम्बन्ध उच्यते, एतदेव नः सिद्धान्ते अवयवेष्ववयविनो वर्त्तनं यस्तेषु तस्य समवायः सम्बन्धः । अत्राह- 10 सा समवायरूपा वृत्तिरवयविनः कथं न नभसि ? यथा ह्यवयवेषु समवायसद्भावादवयवी वर्तत इत्युच्यते तथा नमस्यप्युच्यतां समवायस्यैकत्व-सवगतत्वाभ्यां तत्रापि भावात् । आकाशमपि समवायिकारणं कथं नोच्यत इत्यर्थः ।
पर आकाशे वृत्यभावे हेतुमाह- अजनकत्वात् । सा समवायरूपा वृत्तिराकाशे60A ऽवयविनो नोच्यते किन्तु स्वावयवेष्वेव, आकाशस्यावयविनं प्रत्यजनकत्वान् । यो हि 15
येन जन्यते स तत्रैव समवेतः सन् समवायादत्त इत्युच्यते । तच्चैतदवयवेष्वेवास्ति नाकाशे, जनकत्वा-ऽजनकत्वाभ्याम् । अतः समवायसद्भावाविशेषेऽप्यवयवेष्वेवावयविनो वृत्तिरुच्यते, नाकाशे ।
अत्राह-तीति । यदि तदुत्पादात् तत्र च समवायसद्भावाद्वत्तिरुच्यते, तावं 60व्यवस्थायाममौ धूमस्याऽस्तु सेति सम्बध्यते । यदि हि समवायसद्भावेऽपि जनकत्वा- 20
भावेनावयविनः समवायरूपा वृत्तिराकाशे न भवति तीनौ धूमस्य समवायरूपा वृत्तिरस्तु, अग्नेः सकाशाद्धमस्योत्पादात् समवायस्य चैकत्व-सर्वगतत्वाभ्यां सद्भावात् ।
61A परः प्राह-नेति, उत्पादकत्व-समवाययोगयोरपि नाग्नौ धूमस्य समवायरूपा वृत्तिः,
असमबायिकारणत्वोत् अग्नेः । नाग्निधूर्मस्य समवायिकारणं किन्तु निमित्तकारणम् , १ सा स्यादवयवाभेदिनी द्रव्यम् ॥ २ एकत्वपरिणतेः पर्यायः ॥ ३ एकान्तभेदे का तेषु तद्- 25 वृत्तिः ।। ४ सूत्रम् ॥ ५ सा कथं न नभसि ॥ ६ सूत्रम् ।। ७ जनकत्वम् ॥ ८ तान्नौ धूमस्यास्तु ॥ ९ सतोः ।। १० सूत्रम् ॥ ११ समवायिरूपं कारणं नाग्निः, किन्तु निमित्तकारणम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org