________________
बौद्धमतखण्डनम् ।
३७
परमाणवः, तेभेदस्य त्वयैवेष्टत्वात् , तद्वदवयवागृहीतीवग्रहणेऽप्यवयविनो न परमाणुरूपावयवमात्र एवैकत्वपरिणतिरूपोऽवयवीति ।
एतेन यदप्युक्तम्
" यत् सत् तन्निरवयवं यथा ज्ञानम् , सच्च दृश्यमानं नीलम् , सावय[व]त्वे हि दिग्भागभेदनिमित्तो विरुद्धो धर्मः सत्यस्यासत्याख्यो भवति । तेन स्वभाव विरुद्धो- 5 पलब्ध्या सावय[व] त्वाद् व्यावर्त्तमानं सच्वं निरवयवत्वेन व्याप्यत इति स्वभावः"
] इति । तदपि प्रत्युक्तम् । यतः परमाणूनां धर्मित्वे सिद्धसाधनम् , द्रव्यांशनिश्वय[व] त्वात् । स्थूलस्य तु धर्मित्वे आश्रयासिद्धत्वं प्रत्यक्षबाधा च । अत एव प्रसङ्गत्वमपि न । व्याप्तेरसिद्धत्वोच्च, दिग्भागभेदनिमित्तविरुद्धधर्मसंसर्गेण ज्ञानस्याप्यसत्त्वप्रसङ्गात् , न 10 चामूर्तत्वान्न दिगमिसम्बन्धी विरोधाभावादिति ।
सम्प्रत्युपसंहरति- तत् तस्मादस्ति न पुनर्नास्ति तेषां परमाणूनां तदा प्रत्यक्षग्रहणकाले एकत्वपरिणतिः कथञ्चिदेकत्वपरिणामः । स्थौल्यं संस्थानमेकत्वपरिणति: स्कन्धोऽवयवीत्येकार्था चनयः ॥ छ ।
तदेवं बौद्धान् प्रति एकत्वपरिणाम प्रसाध्य नैयायिकान् प्रत्याह- 15
सा स्यादवयवाभेदिनी द्रव्यम् । एकान्तभेदे का तेषु तद्वृत्तिः ? समवायः । सा कथं न नभसि ? अजनकत्वात् । तर्हि अग्नौ धूमस्याऽस्तु । न, असमवायिकारणत्वात् । समवायनिबन्धनस्तद्भावः कथं न तस्य ?
58A
१ स्पर्श-रसपरमाणूनाम् ॥ २ ७' [ =सप्तम्यन्तं पदम् ] || ३ धर्मोत्तरानुमानम्-विवादाध्यासितं नील निर- 20 वयवम् , सत्त्वात् , यथा ज्ञानम् ॥ ४ व्याप्याभ्युपगमे सत्त्वाभ्युपगमे व्यापकप्रसञ्जनम्-निरवयवत्वमपि ।। ५ प्रतिषेध्यं सावयवत्यम् , तस्य स्वभावोऽसत्त्वमभाव इत्येकोऽर्थः, तस्य विरुद्धं सत्त्वम् , तस्योपलब्धिः ॥ ६ असत्स्वरूपात् ॥ ७ स्वभावहेतुः ।। ८ परमाणूनां धर्मित्व इति, सच्च दृश्यमानं नीलं परमाणुरूपमित्यनेन प्रकारेण धर्मित्वे ॥ ९ सिद्धसाधनमिति । सिदि(द)साधनं नाम दूषणमसिद्हेतावन्तर्भवति । यतो हेतुर्हि सन्दिग्धसाध्यस्य सिद्धयर्थं प्रयुज्यते । अस्य तु हेतोः साध्यमग्रेऽपि सिद्धम् । सिद्धत्वादेव 25 अधिकसाध्याभावादसिद्धत्वम् ।। १० परमाणूनाम् ॥ ११ स्थूलो घटादिः ॥ १२ तव ॥ १३ प्रत्यक्षबाधात
पत्राश्रयासिद्धत्वं तत्र प्रसङ्गहेतुसिद्धिः क्रियते. केनोलखेन।। सच्चेष्यते तदा निरवयवमपीष्यताम्' । सोऽपि न ॥ १५ व्याप्तेरसिद्धत्वाञ्चेति । व्याप्तेः सिद्धौ सत्यां प्रसङ्गहेतुर्घटते, अत्र तु सत्त्वनिरवयवत्वयोाप्तिरेवास्माकमसिद्धा ॥ १६ प्रसङगत्वमपि न ॥ १७ तदस्ति तेषां तदेकत्वपरिणतिः ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org