________________
३६
स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे
वा । इन्द्रियग्राह्यत्वं हि परमाणूनां रूपविशेषोत्पादेन व्याप्तम् । अन्यथा सदा दर्शनप्रसङ्गः । रूपविशेषं चकत्वपरिणतेरन्यं न विद्मः । अविनिर्मागवर्त्तित्वे चोक्तप्रायम् । तदग्रहे तदग्रहात् तयोरभेदः, न रसेन व्यभिचारात् । तदस्ति तेषां तदेकत्वपरिणतिः ।
पुनरपि परः प्राह - तदिति तेषामवयवरूपाणां परमाणूनामग्रहे परिच्छेदाभावे 5 तस्य संस्थानरूपस्य कैथञ्चिदेकत्वपरिणतिरूपस्य वाऽवयविनोऽग्रहात् तयोः परमाणुसंस्थानयोरभेदः । यथा घटापरिच्छेदेऽपि पटः परिच्छिद्यत इति घटात् पृथक्सत्ताको
साविष्यते तथा यदि परमाणुव्यतिरेकेणापि स्वातन्त्र्येण संस्थानं परिच्छिद्येत तदा 56A परमाणुभ्यः पृथक्सत्ताकं तदपीष्येत । किन्तु सर्वत्रापि परमाणुग्रहणपूर्वकमेवावयविनो ग्रहणम्, अतोऽवयवरूपाः परमाणव एवासौ न पुनस्तदतिरिक्तः, अवयवाग्रहणेऽपि 10 क्वचित् तद्ग्रहणप्रसङ्गात् पटवत् । ज्ञाने तु स्थूलाकारप्रतिभासस्तदाहित एव भ्रान्तः, यदुक्तम्
" बहूनां च निरवयवानां प्रतिभासः समुदायविषयः सावयव आभासते [ ] इति । तंत्र तावत् घटात् पटो "व्यतिरेकी च पृथक् च गृह्यत इति युक्तम्, तैयो- 15 त्यैन्तभेदात् । अवयवा ऽवयविनौ तु भेदिनावपि कथञ्चिदभेदिनों, अतः कथं स्वातन्त्र्येण ग्रहणम्, सहैव ग्रहणनियम निबन्धनत्वादमेदस्य | स्थूलप्रतिभासस्तु भ्रान्तो बाधकप्रमाणसम्भवे सति व्यवस्थापयितुं शक्यो नान्यथा । तच नास्ति । 'वृत्यघटना57A नेकत्वकल्पनयोस्तु प्रतिविधानं करिष्याम इति यत् किञ्चिदेतत् ।
१४
56 B
' तदग्रहे 20
तथाप्युच्यते-नेति, नावयवा ऽवयविनोरभेदः । रसेन रसपरमाणुभिः तदग्रहात् ' 'इति हेतोर्व्यभिचारात् । स्पर्शग्रहणपूर्वकं हि भवति रसग्रहणम्, न खलु 57 B जिह्वाग्रेणास्पृष्टस्य वस्तुनो रसपरिच्छेदो भवति । न च स्पर्शपरमाणुमात्रा एव रस
"
१ परमाण्वधिकरूपविशेषोत्पेति । २ रूपविशेषोत्पादाभावे केवलावस्थायामपि दर्शनं स्यादित्यर्थः ॥ ३ * ' तदेकपरिणतिः' इति मूलादर्श ॥ ४ तदग्रहे तदग्रहात् तयोरभेदः || ५ नैयायिकं प्रति ।। ६ जैनं प्रति ॥ ७ यदि परमाण्वतिरिक्तः स्यात् तदाऽवयवेत्यादि । ८ अवयवि ।। ९ परमाण्वाहित || १० जैनोत्तरम् ॥ ११ भिन्नः ॥ १२ घटपटयोः || १३ एतद्रन्थकारापेक्षयाऽत्यन्तं भेदो यायता सवादिनाऽभेदोsपि ॥ १४ नन्वस्ति बाधकं वृत्त्यघटनादीत्याह - वृत्त्येति ॥ १५ रसेन व्यभिचारात् ॥ १६ इत्यस्य हेतोः ||
Jain Education International 2010_05
For Private & Personal Use Only
25
www.jainelibrary.org