________________
54 B
बौद्ध मतखण्डनम् ।
" अन्योन्यप्रत्यया पेक्षास्ते तथास्थितमूर्तयः । कर्मणां चापि सामर्थ्यादविनिर्भागवर्त्तिनः ॥ सन्निवेशेन ये भावाः प्राणिनां सुखदुःखदाः । कर्मभिर्जनितास्ते हि "तेभ्य एवाविभागिनः ॥
"
[ हेतुबिन्दुटीका श्लो० ३३-३४, पृ० १०६ ]
तत् कृत एकत्वपरिणतिः सिध्यति, धारणा-कर्षणयोग विभागवर्त्तित्वादेवोपपद्यमानत्वादिति ?
३५
तदप्यचारु, अविनिर्भागवर्तित्वस्यापि कथञ्चिदेकत्वपरिणत्यनभ्युपगमे परस्परा55 A संश्लेषिणामणू नाम घटनात् । अपि चान्योन्यप्रत्ययैर्लोककर्मभिर्वा परमाणूनां किमविनिafraiवं कृतमा एकत्वपरिणतिरित्यर्थे न नियामकमुत्पश्यामः, एकत्वपरिणतावपि सर्वस्य सिद्धत्वाद् दोषाभावाच्च ।
नन्वस्ति दोषो देश - कात्स्यभ्यां वृत्यघटनं रक्तत्वा रक्तत्वादिविरुद्धधर्माध्यासेनाsaकत्वापत्तिश्च । न दोपः, एकत्वपरिणतेः कथञ्चिदवयवेभ्योऽभेदेन वृत्तिघटनात्, एकान्तभेदिन एवं देश- कात्स्न्यभ्यां वृत्त्यघटनात्, अवयवाऽभेदेन कथञ्चिदनेकत्वस्याव्यवयविनोऽभ्युपगमाचं । यद्वक्ष्यामः- अत एवैकन्वा ऽनेकत्व-कम्पा कम्पाद्युपपद्यते " 55 B [पृ० ४३, 68 A ] इति ।
66
तदविकल्पज्ञाने प्रतिभासान्यथानुपपच्याऽपि परमाणूनां प्रचयावस्थायामेकत्वमात्मनो भिन्न भिन्नमङ्गीकर्त्तव्यम् । अयं चात्र न्यायः सूचित:- येदिन्द्रियग्राह्यं तत् परमाण्वधिकरूपवत् । यच्चैवं न भवति तन्न तथा, यथैकः परमाणुरप्रचिता बहवो
Jain Education International 2010_05
१ सन्तः ॥ * ननु असति एकस्मिन्नवयविनि धारणाकर्षणे कथमुपपद्येयात । मित्याह- अन्योन्येति । ते भागाः । एकसामग्र्यधीनत्वादन्योन्य कारणाधीनापेक्षाः सन्तस्तथास्थितवपुषो येनैकस्याकर्षणे धारणे वाऽन्येषामपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथा स्थितिः, अपि तु अदृष्टवशादपीति दर्शयन्नाह - कर्मणां चेति । लोकस्यासाधारणचेतनात्मकर्मणामपि सामर्थ्यात् तेऽविनिर्भागवर्तिनः, परस्परं विभागेन न वर्तन्ते । ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनमयुक्तमित्याशङ्कयाह-सन्निवेशेनेति । हिर्यस्मादर्थे । " कर्मजं लोकवैचित्र्यम् ” [ अभिधर्मकोशे ४|१ ] इति वचनात् कर्मभिर्जनिता इत्याह । तेषामेव प्राणिनां साधारणैरसाधारणैर्वा कर्मभिः, तेभ्यः कर्मभ्य एव तदाधिपत्यादेवेति यावत् अविभागिनो विभागेन न वर्तन्ते " इति पण्डितदुर्वेक मिश्रविरचिते हेतुबिन्दुटीकालोके पृ० ३५१-३५२ ॥ २ परमाणवः ॥ ३ संस्थानेन ॥ ४ अदृहैः || ५ कर्मभ्यः ॥ ६ स किमवयवी अवयवेषु देशेन कात्स्न्येन वा वर्तत इत्यादि ॥ ७ जैनोत्तरम् ॥ ८ अवयविनः ॥ ९ न दोषोऽत्रापि ॥ १० परमाणूनामात्मनः स्वरूपात् सकाशात् प्रचयावस्थायामेकत्वं भिन्नाभिन्नमङ्गीकृत्यम् ॥ ११ विवादाध्यासितं घटादि परमाण्वधिकरूपवत्, इन्द्रियग्राह्यत्वात्, यत् परमाण्वधिकरूपवन्न भवति न तदिन्द्रियग्राह्यं यथैकः परमाणुः, अप्रचिता बहवो वा परमाणव इति व्यतिरेकानुमानम् ||
For Private & Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org