________________
53A
स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे
परः प्रश्नोत्तरमाह - 'भेदेन मित्रत्वेन, अप्रचयावस्थातोऽन्यत्वेनेत्यर्थः परमाणूनामुत्पादाद्धेतोरेकार्थ क्रियाकारित्वेनोत्पन्नक्षणकालेऽविकल्पसंविदि प्रतिभासो भवतीति सम्बन्धः । यथा प्रचयात् पूर्वं परमाणवोऽसंस्पर्शिनः प्रचयेऽपि यद्यपि तथाभूता एव तथापि पूर्व नाक्षोपलम्भः किन्तु प्रचर्ये एव, पूर्वापरक्षणयोरेकान्तेनान्यत्वात् । यदि हि य एवाsप्रचयावस्थायां परमाणवस्त एव प्रचयावस्थायामपि स्युस्तदा किमिति पूर्वं 5 नोपलब्धाः पश्चादुपलभ्यन्त इति प्रश्नावसरः स्यात् । किन्तु पूर्वापरावस्थयोरेकान्तभिन्ना एवेति कः प्रभावकाशः १ न खलु यदि पिशाचो नोपलभ्यते तदा घटः किमित्युपलभ्यत इति सकर्णो वदति । तत् परमाणुरूपा परित्यागेऽप्यविकल्प संविदि प्रतिभासो न विरुध्यते ।
३४
उत्तरमाह- केदा कस्मिन् काले क्षणिकेषु क्षणमात्रावस्थायिषु भावेध्वियं भेदेनो- 10 त्पत्तिर्नास्ति ? सर्वदाऽप्यस्तीत्यर्थः । यद्यन्यत्वोत्पादमात्रेणोपलम्भा ऽनुपलम्भौ व्यवस्था39 प्येते तदा प्रचयात् पूर्वमपि परमाणवः क्षणिकत्वाच्छतकृत्वोऽन्यत्वेनोत्पन्नाः, सर्वार्थानां परस्परं वैलक्षण्यात् । तत एकक्षणादूर्द्ध्वं द्वितीये क्षणे परमाणुपलम्भ: स्यात्, पूर्वक्षणादन्यद्वितीयक्षणस्योत्पादात् । तद्यदि परमाणवः सर्वदाऽपि परमाणुरूपा एव तदान्यत्वेनोत्पदेऽपि प्रत्यक्षावमामोन घटत एव ।
स्यादेवम्- न मेदेनोत्पत्तिमात्रेणोपलम्भः किन्त्वेकार्थ क्रियाकारित्वविशिष्टाद् भेदेनोत्पादात्, अतो न व्यभिचारः, अप्रचयावस्थार्या वैशिष्टस्याभावादित्यत आहवैशिष्ट्यं तु स्थूलताया अन्यन्न विद्मः | वैशिष्टयं तु स्थूलतायाः कथञ्चिदेकत्वपरिणति54 रूपाया अन्यद् मिनं न विद्मः । एकान्तानेकत्वपरिणतिषु परमाणुषु मेदेनोत्पत्तिमात्रं प्रचयात् पूर्वमप्यस्ति । प्रचयावस्थायां तु वैशिष्टयमेतदेव जातं यदुत पूर्वमेकत्वपरि - 20 णतिर्नासीत्, सम्प्रति तु सा समस्तीति ।
ननु नैकस्वपरिणतिर्वैशिष्टधम्, किं तर्हि ? अन्योन्यप्रत्ययापेक्षया सकललोकसाधारण कमपिक्षया चानेकत्वपरिणतीनामेवाणूनामविभागवर्त्तित्वम् । यदुक्तम्
"
Jain Education International 2010 05
66
१ भेदोत्पत्तेः || २, ३ असंयुक्ताः || ४'७' [ सप्तम्यन्तम् ] ॥ ५ कदा पुनः क्षणिकेष्वियं नास्ति || ६ यदि परमाणुत्वं कथञ्चित् जह्युः परमाणवस्तदानीमेव प्रत्यक्षावभासो घटते ॥ ७ कारण || 25 ८ अदृष्ट ॥ ९ वैशिष्ट्यमिति सम्बन्धः ॥ १०* 'आह च " इत्यभिधाय स्वरचिताः ४५ श्लोका अर्चन हेतु बिन्दुटीकायां [पृ० १०४-१०७] लिखिताः, तेष्विदं वक्ष्यमाणं श्लोकद्वयं वर्तते । "अनन्तरोक्तमर्थजातं सातिरेकं स्वकृताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह आह चेति " इति पण्डितदुर्वेक
मिश्र विरचिते हेतु बिन्दुटीकालोके १०
३४४ ।।
For Private & Personal Use Only
15
www.jainelibrary.org