SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८६ श्रीवीतरागस्तवे नवमः प्रकाशः नमोऽस्तु कलये यत्र त्वदर्शनमजायत ॥७॥ युगेति -- त्वदर्शनविनाकृतः = त्वदर्शनेन त्वदवलोकनेन त्वदुक्ततत्त्वश्रद्धया वा विनाकृतो रहितो वञ्चितो वा । अत एव, युगान्तरेषु = बहुष्वन्येषु युगेषु । भ्रान्तः = विहितभ्रमणः, अस्मि । यदि हि त्वदर्शनवानभवम् , न युगान्तरेष्वभ्राम्यम् । त्वदर्शनस्य भवविच्छेदकरत्वात् । अत एव न युगान्तरेषु मम सादरं ममः, किन्तु, यत्र-यस्मिन् कलौ, त्वदर्शनम् = त्वदुक्ततत्त्वश्रद्धानम् , त्वबिम्बाद्यवलोकनरूपं त्वदवलोकनं वा, अजायतजातम् , लब्धं वा, तस्मै, कलये, नमोस्तु । स्वस्य तत्रैव महालाभात्तं प्रति कृतज्ञस्तं नमामि, न तु युगान्तरम् । तत्र स्वार्थाsसम्पत्तः । 'सर्वः स्वार्थ समीहत' इति भावः ॥७॥ यद्वा न कोऽपि प्रशस्यो निन्धो वा स्वतः, किन्तु भवत्सत्त्वाऽसत्त्वाभ्यामेव तत्त्वमित्याह बहुदोषो दोषहीनात्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥ ८॥ इति... कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे नक्मःप्रकाशः ॥९॥ बहुदोष इति-बहुदोषः मिथ्यात्वादिदोषबहुलः, कलिः, दोषहीनात्-वीतरागात् , त्वत्तः त्वदपेक्षया, अशोभत । वर्तमानाप्रभृति यद्वा तद्वा भवतु, अतीतकाले तु स प्रशस्य एव । Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy