________________
कीर्तिकलाव्याख्याविभूषितः
यद्वा-दोषहीनात्त्वत्तो हेतोः, बहुदोषः इषदसमाप्तदोषवान् । अल्पदोष इत्यर्थः । सर्वथा दोषाभावस्तु न, स्वभावस्य दुरुच्छेद्यत्वादिति भावः । वीतरागस्य तव सम्पर्का दोषबहुलोऽपि कलिरल्पदोषो जातः । महतामाश्रयेऽल्पस्य गुणोत्कर्षात् , “ संसर्गजा दोषगुणा भवन्नी " ति न्यायात् । अत एवाऽशोभत । बहुदोषस्याऽल्पदोषत्वे शोभनमुचितमेव । वीतरागो हि यत्र भवति, ततो दोषाकरादपि दोषोऽपचीयत एवेति भगवतः कलौ सत्वात्कलेरल्पदोषत्वात्स्तुत्यत्वमेवेति तात्पर्यम् । तत्रोपमानमाह-विषयुक्तः= विषधरः, फणीन्द्रः महासर्पः, विषहरात्-विषापहारकाद् , रत्नत इव । यथा विषदोषसत्त्वेऽपि विषहररत्नाद्धेतोः फणीन्द्रः प्रशस्यते, यद्वा तादृशरत्नतो दोषमोषेण कृत्वा फणीन्द्रः स्तुयतेऽनर्थभयाभावाद्रबलाभाच्च । तथा कलेर्दोषवत्त्वेऽपि त्वत्त एव स प्रशस्यः, यद्वा त्वत्तस्तद्दोषमोषेण दुर्लभत्वल्लाभेन च स प्रशस्य एवेति भावः ॥९॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तक्कीर्तिकलाख्यायां व्याख्यायां नवमः प्रकाशः ॥९॥
दशमः प्रकाशः तदेवमुक्तप्रकारेणाऽतिशयादिस्तुतिद्वारा कलिस्तुतिद्वारा च भगवन्तमुपश्लोक्य " चक्रः सेव्यो नृपः सेव्यः ” इति न्याय
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org