________________
श्रीवीतरागस्तवे दशमः प्रकाशः
मनुरुन्धन् साक्षादेव वीतरागमुपचारकाक्यैः स्तुवन्निर्हेतुककारुणिकत्वमेव मनोरञ्जनचतुरवाचा भङ्ग्या स्तौति
मत्प्रसस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः ।
इत्यन्योन्याश्रयं भिन्धि प्रसीद भगवन् ! मयि ॥१॥ __मदिति-मत्प्रसत्तेः = मम प्रसत्तेः प्रसन्नतायाः, सम्यम्दर्शनपूर्वकत्वदाज्ञाराधनादिना कषायादिकलुषाऽपाकरणेन निर्मलमनोवृत्तिकताया हेतोः, अनन्तरमिति शेषो वा । मदीयशुद्धमनोवृत्तिकतामपेक्ष्येति वा । त्वत्प्रसादः तव वीतरागस्य प्रसादोऽनुग्रहः, मयीति सम्बध्यते । यद्वा मम शुद्धमनोवृत्तित्वे शुभसम्भावनया तव प्रसन्नता स्यात् । सर्वो हि स्वानुयायिनं शुद्धवृत्तिकमुपगम्य प्रसीदति । यदुक्तम्-“वीतस्पृहाणामपि योगभाजां भवन्ति भव्येषु हि पक्षपाताः” इति । पुनः किन्तु, इयम्-मत्प्रसत्तिः, त्वत्प्रसादात त्वदनुग्रहात् । यदि हि त्वमनुगृह्योपदेशादिकं ददासि, तदेव सन्मार्गज्ञानादिना मत्कालुष्यप्रमोषसम्भव इति मत्प्रसत्तिस्त्वत्प्रसादात् । एतच्च महत्कौतुकम् , यदेवं मत्प्रसत्तिस्त्वत्प्रसादो वा किमपि न सम्भवति । एकस्य भावेऽपरस्याऽपरस्य भावे चैकस्याऽपेक्षणादन्योन्याश्रयदोषास्पदत्वात् । ननु तर्हि त्वयाऽऽदौ स्वप्रसत्तिरेव सम्पादनीयेति चेन्न । असमर्थस्य मम त्वदनुग्रहं विना तदसम्भबात् । स्व तु वीतरागस्य सर्वसमर्थतया निर्हेतुककारुणिकतया च नाऽतीवाऽपेक्षिता मत्प्रसत्तिरिति प्राक्त्वमेव प्रसीदेत्याह - इति=
Jain Education International 2010_03r Private & Personal Use Only
www.jainelibrary.org