________________
(6)*
कीर्तिकलाण्याख्याविभूषितः
उक्तरीत्याऽऽपद्यमानम् , अन्योन्याश्रयम् = द्वयोभीवे परस्पराऽपेक्षणरूपं दोषम् , भिन्धि अपाकुरु, किं कृत्वेत्यपेक्षायामाह-भगवन् != ऐश्वर्यशालिन् ! एतेन सम्बोधनेन दोषभेदसामग्रीसाकल्यं सूचितम् । नीश्वर्यशालिनः स्वचिकीर्षिते किमप्यत्यन्तमपेक्षितं भवति?, ऐश्वर्यशालित्वस्यैव तथा सति सन्देहास्पदत्वापत्तेः । अत एव, मयि= अल्पसामर्थे स्वप्रसत्तिसाधनविकले, प्रसीद-प्रसन्नो भव । तव निर्हेतुकपरमकारुणिकत्वात् । मत्प्रसत्तेरवश्यमपेक्षणे च तदपि विवादास्पदं स्यादिति भावः । एतेनाऽप्रसन्नं मां कृपया प्रसादयेति स्वाऽभिलाषोऽपि भङ्गया निवेदितम् ॥१॥
ननु त्वत्प्रसत्तावलं मत्प्रसादापेक्षणेन, मद्रूपदर्शनेन मद्गुणकीर्तनेन चाञ्जसा तत्सम्भवादिति चेत् , एवमेतत् । किन्तु तदपि मादृशामत्यन्तमशक्यमित्याहनिरीक्षितुं रूपलक्ष्मी सहस्राक्षापं न क्षमः । स्वामिन् ! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२ ___ निरीक्षितुमिति----स्वामिन्, सहस्राक्षः सहस्राण्यक्षीणि याय स तादृशः, शक्र इत्यर्थः । अपिना द्वयक्षादेमादृशस्य तु कथैव केति सूच्यते । ते-तव, रूपलक्ष्मीम् स्वरूपसमृद्धिम् , समृद्धं रूपमिति यावत् । निरीक्षितुं, न, क्षम: समर्थः । नहि निर्गुणानां सर्वोत्कृष्टानन्तगुणानां च रूपं कोऽपि द्रष्टुं क्षमः । सगणस्यापि परिमितरूपस्यैव च दर्शनविषयत्वादिति भावः । तथा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org