________________
श्रीवीतरागस्तवे दशमः प्रकाशः
गुणान् ,ते इति सम्बध्यते । सहस्रजिह्वः सहस्रा जिह्वा यस्य स तादृशः, शेषनाग इत्यर्थः । अत्राऽप्यपिना सर्वाधिकवचनसाधनसम्पन्नस्य चेन्न शक्तिस्तर्हि मादृशामेकजिह्वानों का कथेति सूच्यते । वक्तुम्-वर्णयितुम् । न शक्तः । एवञ्च त्वत्प्रसादं विना न मत्प्रसत्तिः केनाऽपि प्रकारान्तरेण सम्भवतीति मयि प्रसीदेति भावः । एतेन भङ्गया भगवतोऽनन्तरूपगुणवत्ता सुचिता ॥ २ ॥
ननु ममैव गुणाःस्तोतव्या इत्येव कुत इति चेत्तत्राहसंशयानाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतःपरोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः १॥६
संशयानिति-नाथ !, अनुत्तरस्वर्गिणामपि अनुत्तरविमानवासिनाम् , अन्याऽपेक्षया ज्ञानादिगुणोत्तमानामपीत्यपेरर्थः । तेषां सप्तलवमानायुरभावमात्रत एव केवलाप्राप्तेः । एवञ्चाऽन्येषां कथैव केति सूच्यते । भगवतः सर्वाधिकज्ञानवस्त्वं च ध्वन्यते । संशयान् = आगमादिपदार्थाऽनिर्णयात्मकसन्देहान् , हरसे युक्त्यादिना पदार्थान्निीयाऽपाकरोषि । भूमिष्ठोऽपीति प्रस्तावाल्लभ्यते । एतच्चाऽनितरसाधारणवैशिष्ट्यं तवेति भावः । तदेवाह-कोऽपि, परः अन्योऽपि, किम् ? =न कोऽप्यन्यो भूमिष्ठोऽपि सन्ननुत्तरस्वर्गिणामपि संशयाऽपहारको दृष्टः श्रुतो वाऽद्यावधीति भावः । अतः अस्माद्धेतो:. वस्तुतः याथातथ्येन रूपेण, गुणः तवेत्यर्थबलालभ्यते । स्तुत्यः स्तोतुं योग्यः । नाऽन्यस्य कस्याऽपि,
Jain Education International 2010_03or Private & Personal Use Only
www.jainelibrary.org